SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११२ सिद्धान्तकौमुदी [ स्वादिसन्धि अहर्गणः । 'असुपि' किम् । अहोभ्याम् । अत्र 'अहन्' ( सू० ४४३) इति रुत्वम् । 'रूपरात्रिरथन्तरेषु रुत्वं वाच्यम्' (वा ४८४७) । अहोरूपम् । गतमहो रात्रिरेषा । एकदेश विकृतस्यानन्यत्वात् अहोरात्रः । अहोरथन्तरम् । 'अहरादीनां पत्यादिषु वा रेफः' ( वा ४८५१ ) । विसर्गापवादः । अहर्पतिः । गीर्पतिः । धूर्पतिः । पक्षे विसर्गोपध्मानीयौ । (१७३) रो रि = | ३ | १४ || रेफस्य रेफे परे लोपः स्यात् । (१४) दूलेोपे पूर्वस्य दीर्घोऽणः । ६।३।१९१ ॥ ढरेफौ लोपयतीति तथा, 1 आश्रितः । ननु अहन् इत्यस्य रुः स्यात् पदान्ते इत्यर्थकेन अहन्निति सूत्रेणैव सिद्धस्वात् किमर्थमिदमित्यत आह--शेरपवाद इति । अहरहरिति । नित्यवीप्सयोरिति द्विर्वचनम् । अहन् अहम् इति स्थिते रत्वम् । 'न लुमता' इति निषेधात् सुप्परकत्वाभावः । अहन्निति रुत्वे तु 'अतो रोरप्लुता' दित्युत्वं स्यात् । अहर्गण इति । अह्नां गण इति विग्रहः । अहन्निति रुत्ये तु हशि चेत्युत्वं स्यात् । अहोभ्यामिति । अहन् यां इति स्थिते नकारस्य सुप्परकत्वान्न रेफः | अत्रेति । अहन्निति रुत्वे हशि चेत्युत्वे आद्गुणः । रूपरात्रि । अहनुशब्दस्येति शेषः । रोऽसुपीति रत्वस्यापवादः । श्रहोरूपमिति । अह्नो रूपमिति विग्रहः । अहनू रूपमिति स्थिते नकारस्य रुत्वम्, उत्वम्, आद्गुणः । रत्वे तु हशि चेत्युत्वं न स्यात् । गतमहो रात्रिरेषेति । अहनू रात्रिरिति स्थिते, रुत्वम् उत्वम्, आद्गुणः । रुत्वे तु उत्वं न स्यात् । ननु अहश्च रात्रिश्चेति द्वन्द्व, अहस्सर्वेकदेशेत्यादिना समासान्ते अचि, यस्येति चेति लोपे, अहन् रात्र इति स्थिते नकारस्य रुत्वे उत्वे, आद्गुणे, 'राम्राहाहाः पुंसि' इति पुंस्त्वे, अहोरात्र इति रूपम् । अत्र नकारस्य रात्रिशब्दपरकत्वाभावात् कथं रुत्वम् । ततश्च रोsसुपीति रत्वे ऊत्वं न स्यादित्यत आह – एकादेशेति । श्रहोरथन्तरमिति । अहश्च रथन्तरं चेति द्वन्द्वः । रथन्तरं सामविशेषः । अहरादीनाम् । ननु अहरादीनामिति रेफविशिष्टस्य उपादानात् रेफस्य रेफविधानं व्यर्थमित्यत आह - विसर्गापवाद इति । श्रइर्पतिरिति । अह्नां पतिरिति विग्रहः । गीर्पतिरिति । गिरां पतिरिति विग्रहः । धूर्पतिरिति । धुरां पतिरिति विग्रहः । उभयत्रापि 'वोरुपधाया' इति दीर्घः । पक्ष इति । रत्वाभावपक्षे विसर्गस्य कुप्वोरिति उपध्मानीयविसर्गौ । इदुदुपधस्येति तु तपकरणान्न । - · रोरि । रः इति षष्ठी । 'ढो ढे लोप' इस्थतो लोप इत्यनुवर्तते तदाह-रे फस्येति । पुनर, रमते इति स्थिते प्रथमरेफस्य लोपः । ठूलोपे । दूच रेफश्च ढौ, तौ लोपयतीति ठूलोपः । ण्यन्तात्कर्मण्युपपदे अणू, उपपदसमासः । ढलोपनिमित्तं रेफलोपनिमित्तं च विवक्षितम् । तच्च ढकाररेफात्मकमेव । ढो ढे लोपः, रो रीति तयोरेव ठूलोपनिमितत्वात् । तथाच ढलोपनिमित्ते ढकारे, रेफलोपनिमित्ते रेफे च परतः पूर्वस्याणो दीर्घ 1 For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy