________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३८ ]
बालमनोरमासहिता।
८७३
www
धालोपो नश्च प्रत्ययः । ज्योत्स्ना। तमस उपधाया इत्वं रश्च । तमिस्रा । स्त्रीत्व. मतन्त्रम् । तमिस्रम् । शृङ्गादिनच । शृङ्गिणः । ऊर्जसो वलच् । तेन बाधा माभू. दिति विनिरपि । ऊर्जस्वी । ऊर्जस्वलः । 'ऊर्जाऽसुगागमः' इति वृत्तिस्तु चिन्त्या, 'ऊर्जस्वतीः' इतिवदसुन्नन्तत्वेनैवोपपत्तेः । गोशब्दान्मिनिः । गोमी । मलशब्दादिनच् । मलिनः । ईमसश्च । मलीमसः । (१९२२) मत इनिठनौ ५।२।११५॥ दण्डी-दण्डिकः। (१९२३) ब्रीह्यादिभ्यश्च ५।२।११६॥ ब्रीहि-व्रीहिकः । न च सर्वेभ्यो ब्रोह्यादिभ्य इनिठनाविष्येते । किं तर्हि । 'शिखामालासंज्ञादिभ्य इनिः, 'यवखलादिभ्य इकः' (वा ३२०९) । अन्येभ्य उभयम् । (१६२४) तुन्दादिभ्यः ज्योतीषि, तान्यस्यां सन्तीति विग्रहे ज्यातिष्शब्दात् नप्रत्ययः उपधाभूतस्य इकारस्य लोपश्च निपात्यते । सति च इकारस्य लोपे इणः परत्वाभावात् षत्वनिवृत्ती ज्योत्स्नेति रूपम् । 'चन्द्रिका कौमुदी ज्योत्स्ना' इत्यमरः । तमस इति । तमः अस्यास्तीति विग्रहे तमस्शब्दात् रक्प्रत्ययः । उपधाभूतस्य मकारादकारस्य इत्वं च निपात्यत इत्यर्थः । 'तमित्रा तामसी रात्रिः' इत्यमरः । ननु तमिस्त्रा' इति स्त्रीलि
निर्देशात् तमिस्त्रं गृहमिति कथमित्यत आह-स्त्रीत्वमतन्त्रमिति । शृङ्गादिनजिति । निपात्यत इति शेषः । शृङ्गिण इति । शृङ्गमस्यास्तीति विग्रहः । इनचि णत्वम् । ऊर्जसो बलजिति । निपात्यत इति शेषः। ऊर्जस् इत्यसुन्नन्तं प्रातिपदिकम् । ननु 'अस्मायामेधा' इति विनिना सिद्धर्जस्विनिति निपातनं व्यर्थमित्यत आह-तेनेति । विशेषविहितेन वलचा अस्मायेति सामान्यविहितस्य विनो निवृत्तिर्मा भूदित्यतदर्थ विनो निपातनमित्यर्थः । ऊर्ज इति । उर्जशब्दाद्वलचि प्रकृतेरसुगागम इति वृत्तिग्रन्थः अनुपपन्नः इत्यर्थः । कुत इत्यत आह-ऊर्जस्वतीरितिवदिति । ऊर्जस्वतीरित्यत्र वल. प्रत्ययाभावेन तत्सन्नियोगशिष्टस्य असुगागमस्याप्रसक्तः तत्र उर्जस् इत्यसुन्नन्तं प्रातिपदिकमवश्यमभ्युपेयम् । तेनैव ऊर्जस्विन्नूर्जस्वलयोः विनिवलज्मात्रनिपातनो. पपत्तेरित्यर्थः । ईमसश्चेति । मलशब्दात् निपात्यत इति शेषः । अत इनिठनौ। अद. न्तान्मत्वथें इनि ठन् एतौ स्त इत्यर्थः । समुच्चयार्थकान्यतरस्यग्रहणानुवृत्तेर्मतुबपि भवति । 'एकाक्षरात्कृतो जातेः सप्तम्यां च न तो स्मृतौ इति भाष्यम्। एकाक्ष. रात् स्ववान , कृतः कारकवान् , जातेः वृक्षवान , सप्तम्यां दण्डाः अस्यां शालायां सन्ति दण्डवती । इदं प्रायिकम् । तेन कार्यो कार्यिकः, तण्डुली तण्डुलिकः इत्यादि सिद्धमिति भाष्ये स्पष्टम् ।
ब्रीयादिभ्यश्च । मत्वर्थे इनिठनौ इति शेषः । शिखामालेत्यादि । वार्तिकमिदम् । शिखा, माला, संज्ञा, वीणा, वड़वा, बलाका, पताका, वर्मन् , शर्मन् एभ्यः इनिरेव,
For Private and Personal Use Only