SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २85 सिद्धान्तकौमुदी [हलन्तपुंलिश स्पृक् । षडगकाः प्राग्वत् । इति शान्ताः । 'जि धृषा प्रागल्भ्यः । अस्मात् 'ऋस्विम्- (सू ३५३) आदिना किन् । द्वित्वमन्तोदात्तत्वं च निपात्यते । कुत्वात्पूर्व जश्वेन डः गः कः । धृष्णोतीति दधृक् दधृग , दधृषौ, दधृषः । दधृ. ग्भ्यामित्यादि । रत्नानि मुष्णातीति रत्नमुट-रत्नमुड्, रत्नमुषी, रस्नमुषः । 'षड्भ्यो लुक्' ( स २६१ ) षट्-षड् । षड्भिः षडभ्यः। षड्भ्यः । 'पद्दतु य॑श्च' (सू ३३८) इति जुट् । 'अनाम्' इति पर्युदासान ष्टुत्वनिषेधः । 'यरोऽ नुनासिके-' (सू ११६ ) इति विकल्पं बाधित्वा 'प्रत्यये भाषायां नित्यम्। (वा ५०१७ ) इति वचनान्नित्यमनुनासिकः । षण्णाम् । षटरसु-षट्सु । तदन्तविधिः परमषट् । परमषण्णाम् । गौणत्वे तु प्रियषषः । प्रियषषाम् । रुत्वं प्रति षत्वस्या - षडगकाः प्रागवदिति । षत्वजश्त्वकृत्वच रिति भावः । इति शान्ताः । अथ षकारान्ता निरूप्यन्ते । दष्शब्दस्य व्युत्पत्ति दर्शयति-नि घृषेति । 'आदि. जिटुडवः' इति निः इत् । आकारस्तु। 'उपदेशेऽजनुनासिकः' इति इत् । ऋत्विगादिनेति । किनादित्रयं निपात्यते । किनि लुप्ते पृष् इत्यस्य द्वित्वम् । 'उरत्' रपरत्वम् । हलादिः शेषः । कित्त्वान्न लघूपधगुणः, दधृष् इति रूपम् । णित्यादिनित्यम्' इत्या. शुदात्तनिवृत्यर्थमन्तोदात्तनिपातनम् । कुत्वात्पूर्वमिति । जश्त्वं प्रति कुत्वस्यासिद्धत्वात् प्रथमं जश्त्वेन षस्य डकार इत्यर्थः । गः कः इति । 'विन्प्रत्ययस्य' इति डस्य कुत्वेन गकारः, तस्य चत्वेन ककार इत्यर्थः। रस्नमुदिति । 'मुष स्तेये क्वि, उपप दसमासः सुब्लुक, हल्ड्यादिलोपः, जश्त्वचत्वें इति भावः । षष्शब्दो नित्यं बहुव. चनान्तः । तस्य बहुवचनेष्वेव रूपाणि दर्शयति-पड्भ्यो लुगिति। अनेने जश्शसोः लुकि जश्त्वचत्वे इति शेषः । तदन्तविधिरिति । 'षड्भ्यो लुक् , षट्चतुयश्च' इत्यनयोराङ्गत्वादिति भावः । प्रियाः षट् यस्येति बहुवीहौ प्रियषष्शब्दस्य (एकद्विबहुवचनानि सन्ति । प्रियषट्-प्रियषड् , प्रियषषौ, प्रियषषः इत्यादि रत्नमुष्शब्दवत् । तत्र 'षड्भ्यो लुक्' इति 'षट्चतुर्थ्यश्च' इति च लुडनुटावाशक्य आह-गौणत्वे विति । षड्भ्यः इति, 'षट्चतुर्म्य' इति च बहुवचननिर्देशवलेन तदर्थप्राधान्य एवं लुछ्नुटोः प्रवृत्तेरिति भावः । पठितुमिच्छतीत्यर्थे, 'पठ व्यक्तायां वाचि' इति धातोः 'धातोः कर्मणः समानकर्तृकादिच्छायां वा' इति सन्प्रत्यये 'सन्योः ' इति द्वित्वे हलादिशेषे 'सन्यतः' इत्यभ्यासस्य इत्त्वं, सन इट् , पत्वं, 'सनाचन्ताः' इति धातुस्वम् । पिपठिष इत्यस्मात् क्विप्, 'अतो लोपः' पिपठिप इति षकारान्तम् । कृदमात् प्रातिपदिकरवं, ततः सुः, तत्र विशेषं दर्शयति-रुत्वं प्रतीति । 'कौ लुप्त न For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy