________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३ ]
बालमनोरमासहिता ।
प्रार्णम् । वत्सतरार्णमित्यादि । ' ऋणस्यापनयनाय यदन्यहणं कियते तद्दणार्णम् । दशार्णो देशः । नदी च दशार्णा । ऋणशब्दो दुर्गभूमौ जले च । (७४) उपसगद्वति धातौ ६ । १ ६१॥ अवर्णान्तादुपसर्गादृकारादौ धातौ परे वृद्धिरेकादेशः स्यात् । उपाच्र्च्छति । प्राच्छेति । (७) अन्तादिवच्च ६।१८५॥ योऽयमेका
६१
पञ्चम्यर्थे षष्ठी । प्र, वत्सतर, कम्बल, वसन, ऋण दश, एतेषां ऋणशब्दे परे पूर्वपरयोरचो वृद्धिरेकादेशः स्यादित्यर्थः । प्रार्णमिति । प्रगतमृणमिति विग्रहे, प्रादयो गताद्यर्थे प्रथमयेति गतिसमासः । प्र ऋणम् इति स्थिते गुणं बाधित्वा अनेन वार्तिकेन वृद्धि: : आकारः । रपरत्वम् । वत्सतरः शिशुवत्सः, तस्य ऋणमिति विग्रहः । वत्सतरमधिकृत्य वा तद्ग्रहणार्थं वा यहणं गृह्यते तत् वत्सतरार्णम् । एवमग्रेऽपि द्रष्टव्यम् । आदिशब्देन कम्बलार्ण वसनार्णे दशार्णम् ऋणार्णमिति च गृह्यते । सर्वत्र पष्ठीसमासः । ऋणशब्दस्य ऋणशब्दे परे कथमन्वय इत्यत आह-ऋणस्येति । देशनदीविशेषयोः कथं दशार्णशब्दप्रवृतिरित्यत आह - ऋणशब्द इति । तथा च दश ऋणानि दुर्गभूमयः यस्मिन् देशे स दशार्णः देशविशेषः । दशविधानि ऋणानि जलानि यस्यां नद्यां सा दशार्णेति विग्रहः । उपसर्गादृति । आद्गुण इत्यतः आदिति पञ्चम्यन्तमनुवर्तते । तच्च उपसर्गविशेषणम्, अतस्तदन्तविधिः - अकारान्तादिति भ् । ऋतीति धातोर्विशेषणम् । यस्मिन्विधिरिति तदादिविधिः । ऋकारादाविति लभ्यते । वृद्धिरेवत्यतो वृद्धिरिति चानुवर्तते । एकः पूर्वपरयोरित्यधिकृतम् । तदाह - श्रवर्णान्तादित्यादिना । एकादेश इति । पूर्वपरयोरचोरिति शेषः । अन्यथा उपसर्गस्य धातोश्च सर्वादेशः स्यात् । उपाच्र्च्छति - प्राच्छंतीति । उप ऋच्छति प्र ऋच्छति इति स्थिते गुणे प्राप्ते अनेन वृद्धिः रपरत्वम् ।
- अथ तस्य रेफस्य पदान्ते विहितं विसर्गमाशङ्कितुं तस्य पदान्तत्वसाधनायाहअन्तादिवच्च । एकः पूर्वपरयोरिति सूत्रमनुवर्तते । यथासङ्ख्यपरिभाषया अन्तादिवदित्यस्य क्रमेणान्वयः । ततश्च पूर्वपरयोर्भवन् एकः आदेशः पूर्वस्यान्तवत्परस्यादिवदिति लभ्यते । यद्यपि एकादेशस्य द्वौ वर्णो स्थानिनौ - पूर्वः परश्व, तयोश्च वर्णयोः प्रत्येकमेकत्वात्तदपेक्षया एकादेशस्य अन्तादिवत्त्वकथनमसङ्गतम् । तथापि पूर्वपरवर्णयोर्भवन्नेकादेशः प्रथमस्थानिघटितसमुदायस्य पूर्वस्य यः अन्तः प्रथमस्थानी तत्कार्यकारी भवति । द्वितीयस्थानिघटितसमुदायस्य उत्तरस्य य आदिः द्वितीयस्थानी तत्कार्यकारी भवतीत्यर्थो विवक्षितः । तत्र पूर्वान्तवत्त्वे यथा -क्षीरपेण । क्षीरप इन इति स्थिते आद्गुणइत्येकादेश एकारः । तत्र पूर्वान्तवत्त्वेन पे इत्युत्तरपदस्य एकाच्त्वादेकाजुतरपदे ण इति णत्वं भवति । अत्र एकादेशे स्थानिवत्सूत्रं तु न प्रवर्तते, एकदेशस्थानीभूतं पकारादकारमालम्ब्य पे इत्यस्य एकाजुत्तरपदत्वाश्रयेण प्रवर्तमानस्य णत्वस्य
For Private and Personal Use Only