________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[परिभाषा
(सू ४४) इत्येतदपि परत्वादनेन बाध्यते। (४६)स्वरितेनाधिकारः१॥३॥११॥ स्वरितत्वयुक्तं शब्दस्वरूपमधिकृतं बोध्यम् । परनित्यान्तरमापवादानामुत्तरोत्तरं
इति-स्थिते अष्टाभ्य औशिति कृताकारात् अष्टनः परयोजशसोविधीयमान औशादेशः अलोऽन्त्यस्येति बाधित्वा आदेः परस्येत्यादेरकारस्य प्राप्तः। अनेकाल्त्वाच्च सर्वादेशः प्राप्तः। एवम् 'अतो भिस ऐस्' इत्यादावपि । तत्र कतरच्छास्त्रं बोध्यम् , कतरच्च प्रवर्तत इत्यत्र कि विनिगमकमित्यत आह-अष्टाभ्य औशित्यादाविति । आदिना अतो भिस ऐसित्यादिसंग्रहः । अष्टाभ्य औशित्यादौ आदेः परस्येत्येदपि परत्वादनेन बाध्यत इत्यन्वयः। अस्ते रित्यादा अनेकाल्शिदित्यनेन यथा अलोsन्त्यस्येति बाध्यते तथा अष्टाभ्य औशित्यादौ आदेः परस्येत्येतदपि बाध्यत इत्यर्थः । ननु अस्ते रित्यादौ अलोऽन्त्यस्येति प्राप्ते सत्येवानेकाल्शिदित्यारम्भात् येन नाप्राप्तिन्यायेनापवादत्वात्तेन तत्रालोऽन्त्यस्येत्यस्य बाधो युज्यते । आदेः परस्येत्यस्य तु अनेकाल्शित्सर्वस्येति नापवादः। अस्ते रित्यादावादेः परस्येत्यप्राप्तावपि तत्प्रवृत्तरित्यत आह-परत्वादिति । विप्रतिषेधे परं कार्यमिति तुल्यबलविरोधे पर. प्राबल्यस्य वक्ष्यमाणत्वादिति भावः । आदेः परस्येत्यस्यावकाशः द्वयन्तरुपसर्गेभ्यो. ऽप ईदित्यादिः। अनेकाल्शित्सर्वस्येत्यस्यावकाशः अस्तेर्भूः, इदम इश् इत्यादिः । अतस्तुल्यबलत्वमुभयोः । स्वरितेनाधिकारः । अधिकारः व्यापृतिः। यथा लोके अधिकृतो ग्रामेऽसाविति व्यापूत इति गम्यते । शब्दस्य च उत्तरसूत्रेष्वनुवृत्तिरेव व्यापतिः, स्वरितेन स्वरविशेषेण अधिकारः उत्तरत्रानुवृत्तिरूपव्यापारः प्रत्येतव्यः । यत् पदं शास्त्रकृता स्वरिताख्यस्वरविशेषविशिष्टमुच्चारितं तदुत्तरसूत्रेष्वनुवर्तनीय. मिति यावत् । फलितमाह-स्वरितत्वयुक्तमित्यादिना। आनुनासिक्यवत् स्वरितोच्चारणमपि प्रतिज्ञागम्यम् । अनुवृत्तावुत्तरावधिस्तु व्याख्यानादेवावगन्तव्यः । यद्यपि निवृत्तिवदनुवृत्तिरपि व्याख्यानादेवं भविष्यतीति कि सूत्रेण । तथापि भाष्ये एतत्प्रयोजनं बहुधा प्रपञ्चितम् ।
परनित्येति। परादीनां मध्ये पूर्वपूर्वापेक्षया उत्तरमुत्तरं शास्त्रं बलवत्तरमित्यर्थः । उत्तरोत्तरमित्यत्र 'आनुपये द्वे वाच्ये' इति द्वित्वम् । 'कर्मधारयवदुत्तरेषु' इति कर्मधारयवद्भावात् सुपो लुक् । बलवच्छब्दात् "द्विवचनविभज्योपपदे तरबीप. सुनौ” इति ईयसुन् । “विन्मतो क्इति मतुपो लुक् । परापेक्षया नित्यान्तरङ्गापवादाः, नित्यापेक्षयापि अन्तरङ्गापवादौ, अन्तरङ्गापेक्षयापि अपवादः, इत्येवं क्रमेण पूर्वपूर्वापेक्षया उत्तरोत्तरबलवत्त्वमिति फलितोऽर्थः। परं विप्रतिषेधसूत्रात् बलवत् । परान्नित्यं यथा-तुदति । अत्र "तुदादिभ्यः शः" इति शप्रत्ययं बाधित्वा परत्वात्
For Private and Personal Use Only