________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २]
बालमनोरमासहिता ।
बलीय:' ( प ३९ ) । 'असिद्धं बहिरङ्गमन्तरङ्गे' ( प ५१) 'अकृतव्यूहाः पाणिनीयाः " ( प ५७) । निमित्तं विनाशोन्मुखं दृष्ट्वा तत्प्रयुक्तं कार्यं न कुर्वन्तीत्यर्थः । इति परिभाषाप्रकरणम् ॥
लघूपधगुणः प्राप्तः, स च शप्रत्यये प्रवृत्ते सति न प्रवृतिमर्हति । शप्रत्ययस्तु कृते अकृतेऽपि लघूपधगुणे प्रवृत्तिमर्हतीति स नित्यः । कृताकृतप्रसङ्गी यो विधिः स नित्य इति हि तल्लक्षणम् । अतो नित्यः शप्रत्ययः लघूपधगुणं बाधित्वा प्रथमं प्रवर्तते । ततः "सार्वधातुकमपित” इति शस्य ङित्त्वात् "ङिति च" इति निषेधान्न गुणः । अक्लृप्ताभावकस्य नित्यशास्त्रस्याभावकल्पनापेक्षया क्लृप्ताभावकस्यानित्यशास्त्रस्यैव तत्कल्पनं युज्यत इति नित्यस्य बलवत्वे बीजम् । परादन्तरङ्गं यथा - उभये देवमनुष्याः । अत्र "प्रथमचरम" इति परमपि विकल्पं बाधित्वा सर्वादीनीति नित्यैव सर्वनामसञ्ज्ञा भवति, तस्याः विभक्तिनिरपेक्षत्वेन अन्तरङ्गत्वात् । अल्पापेक्षमन्तरङ्गमिति हि तल्लक्षणम् । तस्य बलवत्वे बीजमाह - असिद्धं बहिरङ्गमन्तरने । अन्तरङ्गशास्त्रे प्रसक्ते बहिरङ्गशास्त्रमविद्यमानं प्रत्येतव्यमित्यर्थः । इयं तु परिभाषा "वाह ऊठ्” सूत्रे भाष्ये स्थिता | परादपवादो यथा - दध्ना | 'अस्थिदधि' इत्यनङ् इह परमप्यनेकालिति सर्वादेशं बाधित्वा ङिच्चेत्यन्तादेशः, तस्य येन नाप्राप्तिन्यायेन तदपवादत्वात् । अपवादस्य बलवत्वे बीजं तु अनुपदमेवोक्तम् । नित्यादन्तरङ्गं यथाग्रामणिनि कुले । इह नित्यमपि इकोऽचीति नुमं बाधित्वा "ह्रस्वो नपुंसक" इति ह्रस्वः । प्रथमतः कृते नुमि अनजन्तत्वात् ह्रस्वो न स्यात् । अन्तरङ्गादपवादो यथादैत्यारिः । श्रीशः । परमपि सवर्णदीर्घ बाधित्वा अन्तरङ्गत्वात् आद्गुणे यणि च प्राप्ते अपवादत्वात् सवर्णदीर्घः । प्रकृतव्यूहाः पाणिनीयाः । न कृतः अकृतः व्यूहः प्रकृतिप्रत्ययविवेचनं यैः ते अकृतव्यूहाः पाणिनिशिष्या इत्यक्षरार्थः । तर्हि सर्वस्य शास्त्रस्य वैयर्थ्यमित्यतोऽध्याहृत्य व्याचष्टे - निमित्तमित्यादिना । सेदुष इत्याद्यदाहरणम् । तच्च शब्दाधिकारे सेदिवस शब्दनिरूपणावसरे मूल एव स्पष्टीभविष्यति । इयं परिभाषा निर्मूला निष्फला चेति परिभाषेन्दुशेखरे स्पष्टम् ।
इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायाँ परिभाषाप्रकरणं समाप्तम् ॥
३७
For Private and Personal Use Only