________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३८
सिद्धान्तकौमुदी
अथाच्सन्धिप्रकरणम् ।
(४७) इको यणचि ६ |१| ७७ ॥ इकः स्थाने यण् स्यादचि संहितायां विषये । 'सुधी उपास्यः' इति स्थिते । ( 1 ) स्थानत आन्तर्यादीकारस्य यकारः ।
[ अच्सन्धि
इको यचि । इक इति षष्ठी । अतः 'षष्ठी स्थानेयोगे'ति परिभाषया स्थान इति लभ्यते । स्थान- प्रसङ्ग इत्युक्तम् । वर्णानां वर्णान्तराधिकरणत्वासम्भवात् अचीति सतिसप्तमी । 'तस्मिन्निति निर्दिष्टे पूर्वस्येति परिभाषया वर्णान्तराव्यवहितोच्चारितेऽचि सति पूर्वस्येति लभ्यते । एवं च अचि परत इत्यर्थलभ्यम् । संहितायामित्यधिकृतम् । ततश्चार्धमा श्राधिककालव्यवधानाभावो लभ्यते । एवं च फलितमाहइकः स्थान इत्यादिना । इदं च सूत्राक्षरानुसारिप्राचीनमतानुसारेण । संहितायामिति सूत्रभाष्ये तु सामीपिकात्मकौपश्लेषिकाधिकरणे अचीति सप्तम तस्मिन्नित्यनेनाश्रित्य संहिताधिकारः प्रत्याख्यातः । इत्थं हि तत्र भाष्यम् - 'अयं योगः शाक्योsaक्तुम् । कथम् ? अधिकरणं नाम त्रिप्रकारं व्यापकमौपश्लेषिकं वैषयिकमिति । शब्दस्य तु शब्देन कोऽन्योऽभिसम्बन्धो भवितुमर्हति अन्यदत उपश्लेषात् । इको यणचि अच्युपश्लिष्टस्येति । ' तत्रान्तरेण संहिताग्रहणं संहितायामेव भविष्यति' इति । उप समीपे श्लेषः सम्बन्धः उपश्लेषः, तत्कृतमधिकरणमौपश्लेषिकं सामीपिकमिति यावत् । एवं च अच्समीपवर्तिनः इक इति फलति । सामीप्यं च कालतो वर्णतश्च व्यवधानाभावः । एवं च असंहितायामुक्तसामीप्याभावादेव यणभावसिद्धेः संहिताधिकारी न कर्तव्य इति भाष्यार्थः । एवं च तुल्यन्यायात् तस्मिन्निति निर्दिष्टे पूर्वस्येत्यत्राप्यौपश्लेषिकाधिकारे सप्तमी । ततश्च अचीत्यादिसप्तम्यन्तार्थे अकारादावुच्चारिते सामीप्यसम्बन्धेन विद्यमानस्य पूर्वस्य कार्यं स्यादित्यर्थः फलति । नत्वव्यवहितोच्चारित इत्यव्यवहितत्वविशेषणमुच्चारिते देयम्, सामीपिकाधिकरणसप्तम्यैव तल्लाभात् । सामीप्यस्य च तत्र कालतो वर्णतश्च व्यवधानाभावात्मकत्वात् । एवं च तत्र नैरन्तर्यार्थं निर्ग्रहणं न कर्तव्यम् । इदं च "स्नुक्रमोः" इति सूत्रे, "तत्र च दीयते" इति सूत्रे च कैयटे स्पष्टम् । अधिकरणत्रैविध्यं तु कारकाधिकारे आधारोऽधिकरणमित्यत्र स्पष्टीकरिष्यते ।
सुधी इति । ध्यै चिन्तायामिति धातोः 'ध्यायतेः सम्प्रसारणं चे 'ति क्विपि यकारस्य सम्प्रसारणे इकारे पूर्वरूपे हलश्चेति दीर्घे च धीशब्दः । सुष्ठु ध्यायन्तीति सुधियः । सुशोभना धीर्येषामिति वा सुधियः । सुधीभिरुपास्य इति विग्रहः । "कर्तृकरणे कृता बहुलम्” इति समासः । “सुपो धातुप्रातिपदिकयोः " भिसो लुक् ।
( १ ) ' व्यक्त्युपदेश पक्षेऽपि' इत्यादिः ।
For Private and Personal Use Only