________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३२]
बालमनोरमासहिता।
११
-
-
षष्ठीतत्पुरुषाद्वहुव्रीहेश्च छ एव । विश्वजनीयम् । 'पञ्चजनादुपसङ्ख्यानम्' (वा २९९६) पञ्चजनीनम् । 'सर्वजनान् खश्च' (वा २९९७)। सार्वजनिकः सर्वजनीनः । 'महाजना' (वा २९९८ )। माहाजनिकः । मातृभोगीणः । पितृभोगौणः । राजभोगीनः । 'आचार्यादणत्वं च' (ग सू १८४) आचार्यभोगीनः । (१६७२ ) सर्वपुरुषाभ्यां णढो पा॥१०॥ 'सर्वाण्णो वेति वक्तव्यम्। (वा २९९९ )। सर्वस्मै हितं सार्वम्-सर्वीयम् । 'पुरुषाद्वधविकारसमूहतेनकृतेषु' (वा ३०००) भाष्य कारप्रयोगात्तेनेत्यस्य द्वन्द्वमध्ये निवेशः। पुरुषस्य वधः पौरुषेयः, 'तस्यैदम्' (सू १५०० ) इत्यणि प्राप्ते । पुरुषस्य विकारः पौरुषेयः, 'प्राणिरजतादिभ्योऽञ्' ( सू १५३२) इत्यनि प्राप्ते । समूहेऽप्यणि प्राप्ते । एका. किनोऽपि परितः पौरुषेयवृता इव' इति माघः स. २-४ । तेन कृते ग्रन्थेऽणि प्राप्ते अप्रन्थे तु प्रासादादाव प्राप्त एवेति विवेकः । (१६७३) माणवचरकाभ्यां खज जनशब्दादिति शेषः । अत्र व्याख्यानमेव शरणम् । विश्वजनीयमिति । विश्वस्य जनो विश्वजनः साधारणो वैद्यादिः । विश्वो जनो यस्येति बहुव्रीहिर्वा । तस्मै हितमिति विग्रहः । पञ्चजनीनमिति । ब्राह्मणक्षत्रियवैश्यशूद्राश्चत्वारो वर्णाः रथकारजातिश्चेत्येते पञ्च जनाः । तेभ्यो हितमिति विग्रहः । सर्वजनाठञ् खश्चेति । वक्तव्य इति शेषः । 'समानाधिकरणादिति वक्तव्यम्' इति वार्तिकं भाष्ये स्थितम् । महाजनानिति । वक्तव्य इति शेषः । विश्वजनप्रसङ्गादिदं वार्तिकद्वयमुपन्यस्तम् । अथ भोगोत्तरपद. स्योदाहरति-मातृभोगीण इति । मातृभोगाय हित इत्यर्थः । आचार्यादिति । आचार्य: शब्दात्परस्य भोगीनशब्दस्य नस्य णत्वाभावो वाच्य इत्यर्थः । नच असमानपदस्थ. त्वादेवात्र णत्वस्याप्रसक्तेस्तनिषेधो व्यर्थ इति वाच्यम् , मातृभोगीणादौ णत्वज्ञा. पनार्थत्वात् । सर्वपुरुषाभ्यां णढो। सर्व, पुरुष आभ्यां चतुर्थ्यन्ताभ्यां क्रमात् णढो स्तः हितमित्यर्थे इत्यर्थः । सर्वाण इति । अत्र सर्वशब्दस्य स्वरूपपरत्वान्न सर्वनामकार्यम् । पुरुषाद्वधेति । वार्तिकमिदम् । पुरुषशब्दाद्वधादिष्वेवार्थेषु ढञ् स्यात् , न हिता) इत्यर्थः । ननु तेन कृतमिति समुदायस्य असुबन्तत्वात् कथं समासे निवेश इत्यत आह-भाष्येति । अणि प्राप्ते इति । अनेन ढजिति शेषः। प्राणीति । रजतादिस्वादजि प्राप्ते अनेन ढजित्यर्थः । समूहेऽप्यणि प्राप्ते इति । पुरुषाणां समूहः इत्यर्थे 'तस्य समूहः' इत्यणि प्राप्ते अनेन ढजित्यर्थः । पौरुषेयवृता इवेति । पुरुषसमूहवृता इवेत्यर्थः । परितः आदर्शप्रतिफलनादिति भावः । तेन कृते इति । पुरुषेण कृतो ग्रन्थ इत्यर्थे कृते ग्रन्थे इत्यणि प्राप्ते, पुरुषेण कृतः प्रासाद इत्यर्थे तु कस्मिन्नपि प्रत्यये अप्राप्ते अनेन ढजित्यर्थः।
For Private and Personal Use Only