________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २८ ]
बालमनोरमासहिता।
७३३
-
ऋतूक्थादिसूत्रान्ताक ४।२।६०॥ ऋतुविशेषवाचिनामेवेह ग्रहणम् । तेभ्यो मुख्यार्थेभ्यो वेदितरि, तत्प्रतिपादकग्रन्थपरेभ्यस्त्वध्येतरि । आग्निष्टोमिकः वाज. पेयिकः उक्थं सामविशेषः । तल्लक्षणपरो प्रन्थविशेषो लक्षणयोक्थम् । तदधीते वेद वा शैक्षिकः । 'मुख्यार्थातूक्थशब्दाळेगणौ नेष्येते'। न्यायम्-नैयायिकः । वृत्तिम्-वार्तिकः । लोकायतम्-लौकायतिकः इत्यादि । 'सूत्रान्तात्त्वकल्पादेरेवेष्यते' (वा २७४)। साङ्महसूत्रिकः । अकल्पादेः किम् । काल्पसूत्रः। 'विद्यालक्षणकल्पान्ताच्चेति वक्तव्यम्' (वा २७४१) वायसविधिकः गोलक्षणिकः । आश्वलक्षणिकः । पाराशरकल्पिकः । 'अङ्गशत्रधर्मत्रिपूर्वाद्विद्यान्तान्नेति वक्तव्यम्' (वा २७४५)। आगाविद्यः । क्षात्रविद्यः । धार्मविद्यः । त्रिविधा विद्या त्रिविद्या । ताम. अध्वरमीमांसाकुतूहलवृत्तौ प्रपञ्चितमस्माभिः । वैयाकरण इति । अणि 'नय्याभ्याम्। इत्यैजागमः। ऋतूक्थादि । 'तदधीते तद्वेद' इत्यर्थयोः ऋतु, उक्थादि, सूत्रान्त एभ्यः उक् स्यादित्यर्थः । ऋतुविशेषवाचिनामेवेति । न तु ऋतुशब्दस्यैवेत्यर्थः । अन्यथा उक्या. दिगण एवं क्रतुशब्दमपि पठेदिति भावः । ननु क्रतुविशेषाणां कथमध्ययनम् । अक्षर. ग्रहणात्मकत्वाभावादित्यत आह-तेभ्य इति । अग्निष्टोमादिशब्दाः ऋतुविशेषेषु मुख्याः। तत्प्रतिपादकान्थेषु तु गौणाः । तत्र क्रतुविशेषात्मकमुख्यार्थकेभ्यः अग्निटोमादिशब्देभ्यः वेदितरि प्रत्ययाः । अग्निष्टोमादिक्रतुप्रतिपादकग्रन्थेषु लक्षणया विद्यमानेभ्यस्तु तेभ्यः अध्येतरीत्यर्थः । श्राग्निष्टोमिक इति । अग्निष्टोमं क्रतुं वेत्ति तत्प्रतिपादकग्रन्थमधीते इति वार्थः। उक्थशब्दः सामसु मुख्यः । सामलक्षणग्रन्थे प्रातिशाख्ये तु गौणः । तत्र गौणार्थकादेव उक्थशब्दात् ठगित्याह-उक्थं सामविशेष इति । 'अग्निष्टोमस्तोत्रात्परं यत्साम गोयते' इति वृत्तिकदुक्तरिति भावः। भाष्ये तु सामशब्दपर्याय उक्थशब्द इति लक्ष्यते । मुख्यार्थादिति । सामवाचिनः उक्थशब्दात्तु न ठक् , तस्मिन्निषिद्धे तदधोते इत्यण च न भवतीत्यर्थः । भाष्ये तु मुख्यार्थकादुक्थशब्दात् ठक् नेत्येव लक्ष्यते । उक्थादिगणपठितात् न्यायादिशब्दात् ठकमुदाहरति-न्यायमिति । अधीते वेत्ति वेति शेषः । नैयायिक इति । उकि ऐजागमः । वृत्तिमिति । अधीते वेद वेति शेषः। वात्तिक इति । उकि आदिवृद्धौ रपरत्वम् । सामहसूत्रिक इति । समाहाख्यं सूत्रमधीते वेत्ति वेत्यर्थः । विद्यालक्षणेति । विद्या, लक्षण, कल्प एतदन्तादपि उक्तेऽर्थे ठगित्यर्थः । श्रङ्गेति । अन, क्षत्र, धर्म, त्रि एतत्पूर्वकाद्विद्यान्तात् समासात् ठक् नेत्यर्थः । ततश्च अणेव । त्रिविधा विद्या त्रिविद्या इति । शाकपार्थिवादित्वाद्विधाशब्दस्य लोप इति भावः । तिस्रो विद्यात्रिविद्या इति न विग्रहः, 'दिक्सख्ये संज्ञायाम्' इति नियमात् । नापि तिस्रो विद्या अधीते वेद तद्धितार्थे
For Private and Personal Use Only