________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १८ ]
बालमनोरमासहिता ।
तयोरुप ज्ञायमानोपक्रम्यमाणयोरादिः प्राथम्यं चेदाख्यातुमिष्यते । पाणिनेरुपज्ञा पाणिन्युपज्ञं ग्रन्थः । नन्दोपक्रमं द्रोणः । (८६५) छाया बाहुल्ये २|४| २२ | छायान्तस्तत्पुरुषो नपुंसकं स्यात्पूर्वपदार्थबाहुल्यै । इण छाया इक्षुच्छायम् । 'विभाषा सेना' - ( सू ८२८ ) इति विकल्पस्यायमपवादः । 'इक्षुच्छायानिषादि - न्यः' इति तु 'आ समन्तान्निषादिन्यः' इत्याश्लेषो बोध्यः । (८२६) सभाराजाऽमनुष्यपूर्वा २|४|२३|| राजपर्यायपूर्वोऽमनुष्य पूर्वश्च सभान्तस्तत्पुरुषो नपुंसकं स्यात् । इमसभम् । ईश्वरसभम् । 'पर्यायस्यैवेष्यते ' ( वा ५१९ ) नेह, राजसभा, चन्द्रगुप्तसभा । अमनुष्यशब्दो रूढ्या रक्षः पिशाचादीनाह । रक्षस्स. भम्, पिशाचसभम् । (६२७) अशाला च २|४|२४|| सङ्घातार्था या सभा
५६३
1
शब्दो भावप्रधानः प्राथम्ये वर्तते । तयोरादिः प्राथम्यं तदादिः । तस्य आचिख्यासा आख्यातुमिच्छा, विवक्षायामिति यावत् । तदाह - तयोरादिरित्यादि । पाणिनेरु • पज्ञेति । कर्तरि षष्ठी । पाणिन्युपशं ग्रन्थ इति । पाणिनिना प्रथमं ज्ञायमानं इत्यर्थः । इदं प्रकरणं परवल्लिङ्गत्वस्य विशेष्यनिघ्नत्वस्य चापवादः । नन्दोपक्रमं द्रोण इति । नन्देनारम्यमाण इत्यर्थः । कर्तरि षष्ठ्याः समासः । छाया बाहुल्ये । छायया तत्पुरुषस्य विशेषणात् तदन्तविधिमभिप्रेत्याह - छायान्त इति । पूर्वपदार्थेति । कस्य बाहुये इत्याकाङ्क्षायाम् आपादकद्रव्यनिमित्तवत्वात् छायाया: । तद्बाहुल्ये इति गम्यते । तच्चापादकद्रव्यमर्थात् पूर्वपदार्थभूतमिति भावः । बाहुल्ये किम् । कुड्यस्य
1
छाया कुडयच्छाया ।
सभा । राजा च अमनुष्यश्च राजामनुष्यौ, तौ पूर्वौ यस्याः सा राजामनुष्यपूर्वा इति विग्रहः । सभया तत्पुरुषविशेषणात्तदन्तविधिः । राजशब्देन राजपर्याय एव विवक्षितः, न तु राजन्शब्दः । तदाह - राजपर्यायपूर्व इति । इनसभम्, ईश्वरसभमिति । इनस्य ईश्वरस्य वा सभेति विग्रहः । इनेश्वरशब्दौ राजपर्यायाविति भावः । पर्यायमात्रग्रहणे प्रमाणं दर्शयति- पर्यायस्यैवेष्यत इति । भाष्यकृतेति शेषः । 'स्वं रूपम्' इति सूत्रे 'जित्पर्यायवचनस्यैव राजाद्यर्थम्' इति वार्तिकं भाष्ये पठितमिति भावः । राजसभेति । राजन्शब्दपूर्वकत्वेऽप्यत्र राजपर्यायपूर्वकत्वं नास्तीति भावः । चन्द्रगुप्तसमेति । चन्द्रगुप्त इति राजविशेषस्य नाम, न तु तत्पर्याय इति भावः । नन्वमनुष्यपूर्वकत्वात् देवसभेत्यादावपि स्यादित्यत आह- श्रमनुष्यशब्दो रूढयेति । असुरशब्दो दैत्यानिवेति भावः । अशाला च । अशालार्थ केत्यर्थः । सभाशब्दः शालायां सङ्घातार्थे च वर्तते । तत्र राजा मनुष्यपूर्वकस्य शालावाचिनः सभाशब्दस्य पूर्वसूत्रे क्लीबत्वमुक्तम् सम्प्रति सङ्घातवाचिनः सभाशब्दस्य क्लीबत्वमुच्यत इत्याह--सङ्घातार्था या
For Private and Personal Use Only