________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८४
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ हल्सन्धि
'ष्टमम् | 'अनाम्नवतिनगरीणामिति वाच्यम्' ( वा ५०१६ ) | षण्णाम् । षण्णबतिः । षण्णगर्यः । (११५) तोः षि ८|४|४३ ॥ तवर्गस्य षकारे परे न ष्टुस्वम् । सन्षष्ठः । झलां जशोऽन्ते ( सू ८४ ) । वागीशः । चिद्रूपम् ॥ (११६) यरोऽनुनासिकेऽनुनासिको वा ८|४|४५ ॥ यरः पदान्तस्यानुनासिके परेऽनुनासिको वा स्यात् । एतन्मुरारिः --- एतद्मुरारिः । स्थानप्रयत्नाभ्यामन्तरतमे स्पर्शे चरितार्थो विधिरयं रेफे न प्रवर्तते । चतुर्मुखः । ' प्रत्यये भाषायां नित्यम्' ( वा
टोः परत्वात् टुत्वनिषेधः स्यादेवेति वाच्यम् । 'हस्वात्तादौ तद्धिते' इति षत्वस्यासिद्धत्वेन जश्त्वाभावात् । इह आदेशप्रत्यययोरिति षत्वं तु न भवति । 'अपदान्तस्य मूर्धन्यः' इत्यधिकारात् । अनाम्नवति । ष्टुत्वप्रतिषेधे नाम एव पर्युदासो न भवति, किन्तु नवतिनगरी शब्दावयवनकारस्यापि पर्युदासो वक्तव्य इत्यर्थः । षण्णामिति । षष् नामिति स्थिते 'स्वादिष्वसर्वनामस्थाने' इति पदान्तत्वात् षस्य जश्त्वेन डकारे 'प्रत्यये भाषायां नित्यम्' इति तस्य णकारः । अत्र टवर्गयोगात् नकारस्य टुत्वम् । न पदान्तादिति निषेधस्तु न, अनामिति पर्युदासात् । षण्णवतिरिति । षडधिका नवतिरिति विग्रहः । अत्रापि नकारस्य टुत्वनिषेधः, नवतिशब्दस्यापि पर्युदासात् । इति । पृथक्पदे । न तु कर्मधारयः, 'दिकसंख्ये सज्ञायाम्' इति नियमात् । अत्रापि न पदान्तादिति नगरीशब्दे नकारस्य दुत्वनिषेधो न भवति, नगरीशब्दस्यापि पर्युदासात् । तोषि । टुरिति नेति चानुवर्तते । तदाह - वर्गस्येति । सन्षष्ठ इति । अत्र नकारस्य षकारयोगात् टुत्वं प्राप्तं निषिध्यते । अस्मादेव ज्ञापकात् ष्टुना ष्टुरित्यत्र टुना योगे इत्यत्र यथासंख्यं नेति विज्ञायते । 'झलाब्जशोऽन्ते' इत्यच्सन्धिनिरूपणे प्रसङ्गादुपन्यस्तम् । हल्सन्धिप्रस्तावे पुनस्तदुपन्यासः ।
1
यरोऽनुनासिके । न पदान्ताट्टोरित्यतः पदान्तादित्यनुवर्तते । तच्च षष्ठयन्ततया विपरिणम्यते । तदाह - यरः पदान्तस्येति । एतन्मुरारिरिति कर्मधारयः । एतद् मुरारिरिति स्थिते दस्य अनुनासिको नकारः दन्तस्थानसाम्यात् स्पृष्टप्रयत्नसाम्याच्च । ननु चतुर्मुख इत्यत्रापि रेफस्य अनुनासिको णकारः स्यात्, रेफणकारयोः स्पृष्टेषपृष्टप्रयत्नभेदेऽपि मूर्धस्थानान्तर्यादित्यत आह-स्थानेति । एतन्मुरारिरित्यादौ स्थानतः प्रयत्नतश्चान्तरतमे स्परों चरितार्थः लब्धप्रयोजनोऽयमनुनासिकविधिः स्थानमात्रेण आन्तर्यमादाय रेफे न प्रवृत्तिमर्हतीत्यर्थः । 'यूनिलब्धे तु युवतिर्जखे रमते कथम्' इति न्यायादिति भावः । प्रत्ययें भाषायां नित्यम् । वार्तिकमेतत् । भाषा लौकिकप्रयोगः । तत्र प्रत्यये विद्यमाने अनुनासिके परतः प्रागुक्तोऽनुनासिको नित्यं
For Private and Personal Use Only