________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ५]
बालमनोरमासहिता।
E५.
-
-
५०१७ ) तन्मात्रम् । चिन्मयम् । कथं तर्हि 'मदोदप्राः ककुमन्तः' इति ? यवादि (ग २५०) गणे दकारनिपातनात् । (१९७) तोलि ४६०॥ तवर्गस्य लकारे परे परसवर्णः स्यात् । तल्लयः । विद्वाँ लिखति । नकारस्यानुनासिको लकारः। (११८) उदः स्थास्तम्भोः पूर्वस्य ४१॥ उदः परयोः स्थास्तम्भोः पूर्वसवर्णः स्यात् । 'आदेः परस्य' (सू ४४)। उत्थानम्। उत्तम्भनम् । भवतीत्यर्थः । तन्मात्रमिति । तत् प्रमाणं यस्य तत्तन्मात्रं 'प्रमाणे द्वयसज्दघ्नमात्रच इति मात्रच्प्रत्ययः । चिन्मयमिति । 'नित्यं वृद्धशरादिभ्यः' इत्यत्र नित्यमिति योग. विभागात्ताप्ये मयट् । कथं तहीति । यदि प्रत्यये परे नित्यमनुनासिकः स्यात् तदा मदोदप्राः ककुयन्त इति कालिदासप्रयोगः कथमित्याभेपः । मतुपः प्रत्ययत्वेन तस्मिन् परे दकारस्य अनुनासिकनकारावश्यम्भावादिति भावः । परिहरति-यवादीति । यवादिगणे ककुमच्छब्दे दकारस्य निर्देशान्न तस्यानुनासिकः । यदि तत्र दकारख्य नकार एव इष्टः स्यात् तहि नकारमेव लाघवान्निर्दिशेदिति भावः । तोलि । अनुस्वा. रस्य ययीत्यतः परसवर्ण इत्यनुवर्तते । तदाह-तवर्गस्येत्यादिना । तल्लय इति । तस्य लय इति विग्रहः । तद् लय इति स्थिते दस्य परसवर्णः परनिमित्तभूतलकारसवर्णो भवति । स च लकार एव, अन्यस्य तत्सावाभावात्। नकारस्येति । विद्वान् लिखतीत्यत्र विद्वान् लिखतीति स्थिते नकारस्य स्थानिनः अनुनासिकस्य परसवर्णो लकारो भवन् आन्तर्यादनुनासिक एव लकारो भवतीत्यर्थः ।। ___ उदः स्थास्तम्भोः । अनुस्वारस्य ययि परसवर्णः" इत्यत्र समासनिर्दिष्टमपि सवर्णग्रहणमिह निष्कृष्य सम्बध्यते, एकदेशे स्वरितत्वप्रतिज्ञानात् । उद इति पञ्चमी। अतस्तस्मादित्युत्तरस्येति परिभाषया उदः परयोरिति लभ्यते। तदाह-उदः परयो. रिति । पूर्वेति । पूर्वनिमित्तस्य उदो दकारस्य यः सवर्णः स आदेशः स्यादित्यर्थः । पूर्वसवर्णश्चायमलोऽन्त्यपरिभाषया स्थास्तम्भोरन्तादेशो न भवतीत्याह-श्रादेः पर. स्येति । अनया परिभाषया स्थास्तम्भोराद्यवयवस्य सकारस्यैव भवतीत्यर्थः । उत्थानमिति । ष्ठा गतिनिवृत्तौ । भावे ल्युट् । उत्तम्भनमिति । 'टभि प्रतिष्टम्भे' भावे ल्युट्। स्तम्भु रोधन इति अनुविधौ निर्दिष्टः सौत्रो वा धातुः। स्थास्तम्भोरिति पवर्गीयो. पधनिर्देशस्य उभयसाधारणत्वात् । ननु उद् स्थानमित्यत्र सकारस्य पूर्वसवर्णविधौ पूर्वनिमित्तं दकारः तत्सवर्णाश्च त थ द ध नाः पञ्चैव । दन्तस्थानसाम्यात् स्पृष्टप्रयत्नसाम्याच्च । नतु लकारः सकारश्च । तयोः स्थानसाम्येऽपि विवृतप्रयत्नत्वात् । नापि लकारः ईषत्स्पृष्टत्वात् । एतदतिरिक्ताश्च सर्वे वर्णाः भिन्नस्थानकत्वान्न दका. रसवर्णाः । ततश्च पूर्वनिमित्तभूतदकारसवर्णाः त थ द ध नाः पञ्चापि सकारस्य प्रासाः । स्थानीभूतसकारेण दन्तस्थानत आन्तर्यस्य पञ्चस्वप्यविशिष्टत्वात्। आभ्य.
For Private and Personal Use Only