________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[हल्सन्धि
अत्राघोषस्य महाप्राणस्य सस्य तादृश एव थकारः। तस्य 'झरो झरि- (सू ७१) इति पाक्षिको लोपः। लोपाभावपक्षे तु थकारस्यैव श्रवणम् । नतु 'खरिच' (सू १२१) इति चत्वम् । चत्वं प्रति थकारस्यासिद्धत्वात् । (११) झयो होऽन्य.
-
न्तरप्रयत्नत आन्तर्यस्य च पञ्चस्वप्यभावात् । स्थानीभूतसकारस्य विवृतप्रयत्नत्वात् एतेषां च पञ्चानां स्पृष्टप्रयत्नत्वात् । अतोऽत्र बाह्यप्रयत्नत एवान्तर्यमादाय पञ्चस्व. न्यतमव्यवस्थामाह-वाघोषस्य महाप्राणस्य सस्य तादृश एव थकार इति । अघोषस्ये. त्यनेन श्वासवतो विवारवतश्चेत्युक्तप्रायम् , समनियतत्वात् । स्थानीभूतस्तावत् सकारः अघोषश्वासविवारमहाप्राणात्मकयत्नचतुष्टयवान् । तस्य त थ द ध नेषु प्रथ. मतृतीयपञ्चमा न भवन्ति । तेषामल्पप्राणत्वात् । नापि चतुर्थो भवति, तस्य घोषनादसंवारयत्नकत्वात् । द्वितीयस्तु थकारः अघोषश्वासविवारमहाप्राणात्मकयत्नचतुष्टयवान् । अतः स एव थकारः पूर्वनिमित्तभूतदकारसवर्णः सकारस्य भवतीत्यर्थः । एवं च उद् स्थानमिति स्थिते दकारस्य 'खरिच' इति चत्वेन तकारे सकारस्य पूर्वसवणे थकारे उत्थ्थानमित्येकतकारं द्विथकारं च रूपं सिद्धम् । एवम् उत्थतम्भनमित्यत्रापि योज्यम् । तत्र द्वितकारमेकथकारं चेति विशेषः। तस्येति । सकारादेशस्य थकारस्ये. त्यर्थः । एवं च प्रथमथकारस्य लोपपक्षे एकतकारमेकथकारं च रूपमिति भावः । ननु प्रथमथकारस्य लोपाभावपक्षे एकतकारं द्विथकारं च रूपमित्यनुपपन्नम् । प्रथमथका. रस्य खरि चेति चत्वे सति द्वितकारमेकथकारमित्यापत्तेरित्यत आह-लोपाभावेति, असिद्धत्वादिति । खरि चेति सूत्रापेक्षया उदस्स्थादित्यस्य परत्वादिति भावः । उत्त्. तम्भनमिति त्रितकारपाठस्तु प्रामादिकः । उक्तप्रक्रियाया उभयत्रापि साधारण्यात् । केचित्त 'नमुने' इत्यत्र नेति योगविभागमभ्युपगम्य पूर्वसवर्णस्य थकारस्य च प्रत्यसिद्धत्वाभावाच्चत्वे उत्तृतम्भनमिति त्रितकाररूपं कथञ्चित् साधयामासुः। तत्तु मूलकृतो न सम्मतम् , मूले उभयसाधारण्येनैव प्रक्रियानिरूपणात् । वस्तुतस्तु 'दीर्घादाचार्याणाम् इत्युत्तरं अनुस्वारस्य ययि परसवर्णः, वा पदान्तस्य, तोलि, उद. स्स्थास्तम्भोः पूर्वस्य, झयो होऽन्यतरस्याम् , शश्छोष्टीति षट्सूत्रीपाठोत्तरं झलाजश् शशि, अभ्यासे चर्च, खरि च, वाऽवसाने, अणोऽप्रगृह्यस्यानुनासिकः, इति पञ्चसूत्रीपाठ इति हलो यमामिति सूत्रस्थभाष्यसम्मतःसूत्रक्रमः । एवं च खरि चेति चत्वे कर्तव्ये उदस्स्थास्तम्भोरिति पूर्वसवर्णस्य थकारस्य असिद्धत्वाभावाच्चत्वे उत्त. थानमिति द्वितकारमेकथकारं च रूपम् , उत्त्तम्भनमिति तु त्रितकारमेव रूपमिति शब्देन्दुशेखरे प्रपञ्चितम् ।।
झयो हः । झय इति पञ्चमी । परस्येत्यध्याहार्यम् । ह इति षष्ठी। उदस्स्थास्तम्भोरित्यतः पूर्वस्येति अनुस्वारस्य ययीत्यतः सवर्ण इति चानुवर्तते तदाह
For Private and Personal Use Only