________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ५ ]
बालमनोरमासहिता ।
तरस्याम् ८|४|६२|| झयः परस्य हस्य पूर्वसवर्णो वा स्यात् । घोषवतो नादवतो महाप्राणस्य संवृतकण्ठस्य हस्य तादृशो वर्गचतुर्थ एवादेशः । वाग्धरिः - वाहरिः । (२२०) शछोटि मा४६३॥ पदान्ताज्झयः परस्य शस्य छो वा स्यादटि । दस्य चुत्वेन जकारे कृते । (१२१) खरि च ८|४|५५ ॥ खरि झलां चरः स्युः । इति जकारस्य चकारः । तच्छिवः, तच् शिवः । 'छत्वममीति वाच्यम्' ( वा ५०२५) । तच्छ्लोकेन - तच्श्लोकेन । अमि किम् । वाक् इच्योतति । (१२२)
मय: परस्येत्यादिना । वाग्धरिरित्युदाहरणम् । वाच्शब्दश्चकारान्तः, कुत्वं जश्त्वम् । वाग् हरिरिति स्थिते हकारस्य पूर्वसवर्णविधौ गकारः पूर्वोनिमित्तम्, तत्सवर्णाः क बाः पञ्च । तेषां हकारेण स्थानिना स्थानत आन्तर्यमविशिष्टम् । आभ्यन्तरप्रयनसाम्यं तु पञ्चानामपि हकारेण स्थानिना न विद्यते, स्पृष्टविवृतप्रयत्नभेदात् । अतः बाह्ययत्नतः आन्वर्यमादाय पञ्चस्वन्यतमव्यवस्थामाह — घोषवत इत्यादिना । स्थानीभूतो हकारः घोषनादसंवार महाप्राणाख्ययत्नचतुष्टयवान् । तस्य क ख ग घ डेषु प्रथमतृतीयपञ्चमा न भवन्ति तेषामल्पप्राणत्वात् । द्वितीयः खकारो न भवति, तस्याघोषश्वासविवारयत्नकत्वात् । चतुर्थस्तु घकारः घोषनादसंवार महाप्राणवान् । अतः स एव घकारो हकारस्य भवतीत्यर्थः । ततश्च वाग्धरिरिति भवति । पूर्वसव
---
भावे तु वाग् हरिरिति । शश्छोटि । झय इति पञ्चम्यन्तमनुवर्तते । स इति षष्ठयेकवचनम् । तदाह - झयः परस्य शस्येति । तद् शिव इति स्थिते दकारस्य चुत्वेन जकारे कृते जकारस्य चकार इत्यन्वयः । केनेत्यत आह- खरि च । झलाअसशीत्यतो झलामिति, अभ्यासे चर्चेत्यतश्चरिति चानुवर्तते । तदाह-- खरि पर इत्यादिना । इति जकारस्य चकार इति । स्थानत आन्तर्यादिति भावः । ततः छत्वम् । नतु प्राणित्यपि बोध्यम् । छत्वस्य चुत्वचत्वें प्रत्यसिद्धत्वात् । हलो यमामिति सूत्रस्थभाष्यसंमतसूत्रक्रमे तु चुत्वेन जकारे कृते शस्य छत्वे ततो जकारस्य चर्वम् । नतु छत्वात् प्राक् चर्त्वम्, चर्व्वं प्रति छत्वस्यासिद्धत्वात् । तच् छिव इति । स चासौ शिवश्चेति, तस्य शिव इति वा विग्रहः । चोः कुरिति कुत्वं तु न, श्चुत्वस्यासिद्धत्वात् । छत्खममीति वाच्यम् । शश्छोsटीति सूत्रे अटीति विहाय अमीति वक्तव्यमित्यर्थः । शरछोऽमीति सूत्रं पठनीयमिति यावत् । तच् श्लोकेनेति । स चासौ श्लोकच, तस्य श्लाक इति वा विग्रहः । लकारस्य अड्बहिर्भूतत्वात् तत्परकस्य शकारस्य सूत्रपाठतः छत्वे अप्राप्ते वार्तिकमिदम् । वाक्च्योततीति । अत्र तु कुत्वं भवत्येव । चकारस्य स्वाभावि कतया श्चुत्वनिष्पन्नत्वाभावेन असिद्धत्वाभावात् । अत्र चकारस्य अम्बहिर्भूतत्वात् तत्परकशकारस्यान न छत्वम् ।
For Private and Personal Use Only