________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
धकरणम् १६ ]
बालमनोरमासहिता ।
नम्, ईशनं वा (६१५) कृञः प्रतियत्ने २३ | ५३ ॥ प्रतियत्नो गुणाधानम् | कृञः कर्मणि शेषे षष्ठी स्यादगुणाधाने । एधोदकस्योपस्करणम् (२१५) रुजार्थानां भाववचनानामज्वरेः २२३| ५४ | भावकर्तृकाणां ज्वरिवर्जिताना रुजार्थानां कर्मणि शेषे षष्ठी स्यात् । चौरस्य रोगस्य रुजा । 'अज्वरिसन्ताप्योरिति वाच्यम्' ( वा १५०७ ) रोगस्य चौरज्वरः, चौरसन्तापो वा । रोगकर्तृकं चौरस -
98
कर्मीभूतसर्पिस्सम्बन्धिदयनमित्यर्थः । 'दय दानगतिरक्षणहिंसादानेषु । दीनान् दयते इत्यत्र दुःखाद्वियोजयितुमिच्छतीत्यर्थः । परदुःखापहरणेच्छा दया । ईशनं वेति । सर्पिष इत्यनुषज्यते । वस्तुतः कर्मीभूतसर्विसम्बन्धी यथेष्टविनियोग इत्यर्थः । इदमपि समासनिषेधार्थमेव । लोकानीष्टे इत्यत्र तु यथास्वेच्छमाज्ञापयतीत्यर्थः । कृञः प्रति। कर्मणीति, शेष इति चानुवर्तते । प्रतियत्नो गुणाधानम् । तदाहकृञः कर्मणीति । एधोदकस्योपस्करणमिति । एधशब्दस्सकारान्तो नपुंसकलिङ्गः । दकशब्द उदकवावी । एघश्च दकं चेति द्वन्द्वः । यद्वा एधशब्दः अकारान्तः पुंलिङ्गः । एवश्व उदकं चेति द्वन्द्व इत्यनुपदमेवोक्तम् । वस्तुतः कर्मीभूतैधोदकसम्बन्धि परिष्करणमित्यर्थः ।
1
रुजार्थानाम् । रुजा पीडा रोग इत्यर्थो येषामिति विग्रहः । भाववचनामित्येतद्वाचष्टे - भावकर्तृकाणामिति । वक्तीति वचनः कर्तरि ल्युट् । प्रकृत्यर्थो न विवाक्षतः । भावः धात्वर्थः वचनः कर्ता येषामिति विग्रहः । भावकर्तृकाणामिति फलितमिति भाष्ये स्पष्टम् । शेष इति कर्मणीति चानुवर्तते । तदाह -कर्मणि शेष इति । इदमपि समासाभावार्थमेव । चौरस्य रोगस्य रुजेति । अत्र रुजेति व्याधिकृत सन्तापादिपीडोच्यते । गौरं सन्तापादिना पीडयतीति पर्यवसन्नोऽर्थः । रोगकर्तृका वस्तुतः कर्मीभूतचौरगता सन्तापादिपीडेत्यर्थः । अत्र भावघजन्तेन रोगशब्देन शारीरक्षयादिविकारविशेष विवक्षितः । सच रुजायां कर्ता । तत्कर्मणचौरस्य शेषत्वविवक्षायां षष्ठी । रोगस्य चौररुजेति समासो न भवतीति बोध्यम् । अज्वरिसन्ताप्योरिति । 'रुजार्थानां भाववचनानां ज्वरिसन्तापिवर्जितानाम्' इति सूत्रं वक्तव्यमित्यर्थः । रोगस्य चौरज्वर इति । अत्र चौरज्वरशब्दे शेषषष्ठ्याः समासो भवत्येव, शेषषष्ठ्याः पुनर्विध्यभावात् । एवं रोगस्य चौरसन्ताप इत्यत्रापि बोध्यम् । अत्राज्वरिसन्ताप्योरित्यनुक्तौ तु रुजार्थानां भाववचनानां कर्मणि शेषे चौरशब्दात् षष्ठी स्यादित्यतिव्याप्तिं दर्शयितुमाह - रोगकर्तृकमिति । रोगकर्तृकः वस्तुतः कर्मीभूतचौरसम्बन्धी ज्वरः सन्तापो वेति यावत् । एवञ्च ज्वरिसन्ताप्योः रुजार्थकत्वात् रोगात्मकभावकर्तृकत्वाच्च तत्कर्मणवरस्य शेषत्वविवक्षायां नानेन षष्ठी, किन्तु कृद्योगे षष्ठी, 'षष्ठी शेषे' इत्येव षष्ठी
For Private and Personal Use Only