SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३७४ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदी [ स्त्रीप्रत्यय वसिष्ठस्य पत्नी । तत्कर्तृकस्य यज्ञस्य फलभोक्त्रीत्यर्थः । दम्पत्योः सहाधिकारात् । (४२) विभाषा सपूर्वस्य ४ | ३ | ३४ ॥ पतिशब्दान्तस्य सपूर्वस्य प्रातिपदिकस्यनो वा स्यात् । गृहस्य पतिः गृहपतिः - गृहपत्नी । 'अनुपसर्जनस्य' इतीहोत्तरामनुत्तमपि न पत्युर्विशेषणं, किन्तु तदन्तस्य । तेन बहुव्रीहावपि । दृढपत्नी, दृढपतिः । वृषलपत्नी - वृषलपतिः । अथ 'वृषलस्य पत्नी' इति व्यस्ते कथमिति -यामित्यधिकृतम् । तदाह - पतिशब्दस्येति । यज्ञे नैति । यज्ञसम्बन्धः यज्ञेन सह स्वामितया सम्बन्धः, यज्ञफलभोक्तृत्वमिति यावत् । तदाह - तत्कर्तृकस्येति । वसिष्ठकंकस्येत्यर्थः । ननु वसिष्ठकर्तृकयज्ञस्य वसिष्ठ एव फलभोक्तेत्युचितं, नतु तत्त्रयपि, "स्वर्गकामः' इत्यादिपुंलिङ्गशब्दैः पुंस एवाधिकारावगमात् इत्यत आह- दम्पत्योः सहाधिकारादिति । एतच्च प्रकृतसूत्रे भाष्ये स्पष्टम् । अत एव पूर्वमीमांसायां षष्ठस्य प्रथमपादे 'लिङ्गविशेषनिर्देशात् पुंयुक्तमैतिशायनः' इत्यधिकरणे 'स्ववतोस्तु वचना'दैककर्म्यं स्यात्' इत्यधिकरणे च दम्पत्योः सहाधिकारः सिद्धान्तितः । प्रपञ्चितं चैतदस्माभिरध्वरमीमांसा कुतूहलवृत्तौ । विभाषा सपूर्वस्य । पत्युर्न इत्यनुवर्तते । प्रातिपदिकादित्यनुवृत्तं षष्ट्या विपरिणतं पत्युरित्यनेन विशेष्यते, तदन्तविधिः । सपूर्वस्येत्येतत् पतिशब्दान्तप्रातिपदिके अन्वेति । पूर्वावयवसहितस्येत्यर्थः । तदाह - पतिशब्दान्तस्येत्यादिना । यज्ञसंयोगाभावेऽपि अप्राप्तविभाषेयम् । गृहपतिः -- गृहपत्नीति । नत्वपक्षे 'ऋन्नेभ्य' इति ङीप् । 'अत्र गृहपतिशब्दः पतिशब्दान्तः गृहशब्दात्मकपूर्वावयव सहितश्चेति भावः । नच 'ग्रहणवता प्रातिपदिकेन' इति निषेधः शङ्खयः, 'शूद्रा चामहत्पूर्वा' इति लिङ्गेन तस्य स्त्रियामित्यधिकारे अप्रवृत्तेरुक्तत्वात् । ननु दृढः पतिः यस्या इति बहुव्रीहौ दृढपतिः पत्नीत नत्वविकल्प इष्यते स तु न सम्भवति, 'अनुपसर्जना' दित्यधिकारात् पतिशब्दस्यात्रोपसर्जनत्वात् । नच अनुपसर्जनात् इति नात्र सम्बध्यते इति वाच्यम्, उत्तरत्रानुवृत्तये इहापि तदनुवृत्तेरावश्यकत्वादित्यत आह- अनुपसर्जनस्येत्यादि । किं तु तदन्तस्येति । सपूर्वस्येति पत्यन्तस्य श्रुतत्वेन तद्विशेषणताया एव न्याय्यत्वात् । अवान्तरवाक्यार्थबोधोत्तरमेव अनुपसर्जनत्व विशेषणप्रवृत्त्या तत्काले सपूर्वस्य श्रुतत्वेन तेनैव सम्बन्धे जाते सति पश्चात् पतिशब्देऽपि पुनर्व्यापारे मानाभावादिति भावः । तेनेति । अनुपसर्जनत्वस्य पत्यन्तविशेषणत्वेनेत्यर्थः । यज्ञसंयोगग्रहणमनुवर्त्य प्राप्तविभाषा कुतो न स्यादित्यत आह- वृषलपत्नीति । पाति रक्षतीति पतिः वृषपतिः स्त्री इति विग्रहः । अपशूद्राधिकरणे शूद्राणां यज्ञाधिकारनिराकरणादिह - यज्ञसंयोगाभावादप्राप्तमेव नत्वं विभाष्यत इति भावः । आक्षिपति – प्रथेति । आक्षेपारम्भद्योतकोऽथशब्दः, प्रश्नद्योतको वा । 'मङ्गला For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy