________________
Shri Mahavir Jain Aradhana Kendra
४३२
www.kobatirth.org
सिद्धान्तकौमुदी
Acharya Shri Kailassagarsuri Gyanmandir
[ कारक
1
प्रकृष्टोपकारकं कारकं करणसज्ञं स्यात् । तमब्ग्रहणं किम् । गङ्गायां घोषः । ( ५६१ ) कर्तृकरणयोस्तृतीया २|३ | १८ || अनभिहिते कर्तरि करणे व तृतीया स्यात् । रामेण बाणेन हतो वाली । ' प्रकृत्यादिभ्य उपसंख्यानम्' ( बा १४६६) । प्रकृत्या चारुः । प्रायेण याज्ञिकः । गोत्रेण गार्ग्यः । समेनैति । विषमेणेति । द्विद्रोणेन धान्यं क्री. कतमं करणम् । क्रियासिद्धाविति । क्रियोत्पत्तावित्यर्थः । कारकाधिकारलभ्यमिदम् । प्रकृष्टोपकारकमिति । कर्त्रा क्रियायां जनयितव्यायां यत् सहायभूतं तदुपकारकमित्युच्यते । साधकतममित्यस्य व्याख्यानमेतत् । साधकशब्दात् 'अतिशायने तमप्' इति तमण् । अतिशयितं साधकं साधकतममिति भावः । यद्वयापारानन्तरं क्रियानिष्पत्तिः तत् प्रकृष्टम् । कर्तृव्यापाराधीनयद्व्यापाराव्यवहिता क्रियानिष्पत्तिः तत्तस्यां करणमिति यावत् । तमग्रहणं किमिति । साधकमित्येवोच्यताम् । कारकाधिकारादेव सिद्धे पुनः साधकग्रहणादेव प्रकृष्टं साधकमिति विज्ञायत इति प्रश्नः । गङ्गायां घोष इति । अयमाशयः– कारकप्रकरणे गौणमुख्यन्यायः एतत्सूत्रादन्यत्र न प्रवर्तते इति ज्ञापनार्थ तमब्ग्रहणम् । अन्यथा 'आधारोऽधिकरणम्' इत्यत्र अन्वर्थमहासंज्ञाबला - देवाधारलाभे पुनस्तद्ग्रहणसामर्थ्यात् सर्वावयवव्याप्त्या य आधारः सोऽधिकरणमित्यर्थः स्यात् । एवं च तिलेषु तैलं दनि सर्पिरित्यादावेव स्यात् । गङ्गायां घोषः, कृपे गर्ग कुलमित्यादौ न स्यात् । अतस्तमब्ग्रहणमिति भाष्ये स्पष्टम् । अत्र यद्वक्तव्यं तत् 'आधारोऽधिकरणम्' 'सप्तम्यधिकरणे च' इत्यत्र वक्ष्यते ।
'कर्तृकरणयोस्तृतीया । 'अनभिहिते' इत्याधिकारादाह - अनभिहित इति । रामेणेति । रामकर्तृकबाणकरणक हिंसा क्रियाविषयो वालीत्यर्थः । प्रकृत्यादिभ्य उपसङ्ख्यानमिति । तृतीयाया इति शेषः । उपपदविभक्तिरियम् । यथायोगं सर्वविभक्त्यपवादः । प्रकृत्या चारुरिति । सम्बन्धस्तृतीयार्थः । प्रकृतिः स्वभावः, तत्सम्बन्धिचारुत्ववानित्यर्थः । यदा तु स्वभावेनैवायमभिरूपः न त्वलङ्कारादिनेति करणान्तरव्युदासाय प्रकृतेः करणत्वं विवक्ष्यते, तदा 'कर्तृकरणयोः' इत्येव सिद्धमिति भाष्यम् । प्रायेण याज्ञिक इति । प्रायशब्दो बहुलवाचा । बहुलाचारसम्बन्धियाज्ञिकत्ववानित्यर्थः । सम्बन्धश्च ज्ञाप्यज्ञापकभावः । बहुलेन आचारेण हेतुना ज्ञाप्ययाज्ञिकत्ववानित्यर्थे तु 'इत्थम्भूतलक्षणे' इत्येव सिद्धम् | बहुलेन आचारेण सम्पन्नयाज्ञिकत्ववानित्यर्थे तु करणत्वादेव सिद्धमिति भाष्यम् । गोत्रेण गार्ग्य इति । गोत्रमस्य गार्ग्य इत्यर्थः । अत्र प्रथमा प्राप्ता । गोत्रेण हेतुना ज्ञाप्यगार्ग्यत्ववानित्यर्थे तु ' इत्थम्भूतलक्षणे' इत्येव सिद्धम् इति भाष्यम् । समेनैति, विषमेतीति । क्रियाविशेषणमेतत् । समं विषमं च गमनं करोतीत्यर्थः । कर्मणि द्वितीया प्राप्ता । समेन विषमेण वा पथा एतीत्यर्थे तु करणत्वादेव सिद्धम् इति भाष्यम् । द्विद्रोणेन धान्यं क्रीणातीति । द्वयोर्द्रोणयोः समाहारः
1
For Private and Personal Use Only