________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७०
सिद्धान्तकौमुदी
[ अच्सन्धि
गोरति वा प्रकृतिभावः स्यात्पदान्ते। गो अप्रम्-गोऽप्रम् । 'एउन्तस्य' किम् । चित्रग्वप्रम् । ‘पदान्ते' किम् । गोः । (:) अवङ् स्फोटायनस्य ६।१।१२३॥ 'अति' इति निवृत्तम् । अचि परे पदान्ते गोरवङ् वा स्यात् । गवाप्रम् । ‘पदान्ते' किम् । गवि । व्यवस्थितविभाषया गवाक्षः। (D) इन्द्रे च ६१।१२४॥ गोरवङ् स्यादिन्द्रे । गवेन्द्रः । विकारस्वरूपेण अवतिष्ठत इत्यर्थः । यजुष्युर इत्यतो यजुषीति निवृत्तम् । तत्सूचनाय सर्वत्रेत्युपात्तम् । तेन लोके वेदे चेति लभ्यते । तदाह-लोक इत्यादि । प्रकृतिभाव इति । स्वभावेनावस्थानमित्यर्थः। एवं च पूर्वरूपमवादेशश्च न । गो अग्रमिति प्रकृतिभावे रूपम् । पूर्वरूपे गोऽयमिति । अत्र एक इत्यप्यनुवर्तते । ततश्च एकदेशवि. कृतमनन्यवद्भवतीति न्यायेन चित्रग्वामित्यत्र नातिप्रसङ्गः । हे चित्रगोऽग्रमित्यत्रापि न प्रकृतिभावः, प्रतिपदोक्तस्यैव एडो ग्रहणात् , प्रकृते च हस्वस्य गुण इत्योकारस्य लाक्षणिकत्वात् । गोरिति । गो अस् इति स्थिते गो इत्योकारस्य पदान्तत्वाभावान्न प्रकृतिभावः । नचैवमपदान्तत्वादेङः पदान्तादिति पूर्वरूपमपि दुर्लभमिति वाच्यम् , अत एव ङसिङसोश्चेति तत्र पूर्वरूपारम्भात् । अवङ् स्फोटायनस्य, अतीति निवृत्तमिति। एङः पदान्तादित्यत इति शेषः, व्याख्यानादिति भावः । पदान्तादिति, गोरिति, अचीति चानुवर्तते । स्फोटायनस्य ऋषेः मते अवङ् । अन्यस्य तु न । ततश्च विकल्पः सिद्धः । तदाह-अचि पर इत्यादिना। डिच्चेत्यन्तादेशः । गवाग्रमिति । गो अग्रमिति स्थिते गकारादोकारस्यावङ् । गव अग्र इति स्थिते सवर्णदीर्घः । न च अग्रशब्दे अकारमचं परत्वेनाश्रित्य प्रवृत्तः अवङ् कथं तद्विघातकं सवर्णदीर्घ प्रवर्तयति सन्निपातपरिभाषाविरोधादिति वाच्यम् , सन्निपातपरिभाषाया अनित्यत्वस्य रामायेत्यत्र वक्ष्यमाणत्वात् । गवीति । गो इ इति स्थिते ओकारस्य पदान्तत्वविरहाना. चङ् । नापि पूर्वसूत्राभ्यां प्रकृतिभावपररूपे। किन्तु अवादेशः। अतीत्यनुवृत्तौ तु गवेश इत्यादि न सिध्येत् । व्यवस्थितेति । क्वचित् भवतीत्यंश एव प्रवर्तते, क्वचित्तु न भवतीत्यंश एव, क्वचिदुभयमित्येवं लक्ष्यानुसारेण व्यवस्थया प्रवृत्ता विभाषा व्यवस्थितविभाषा सर्वत्र विभाषा गोरित्यत्राश्रीयते। ततश्च गवाक्ष इत्यत्र नित्यमवङ् इत्यर्थः । इदं च ।
"देवत्रातो गलो, ग्राह, इतियोगे च सद्विधिः ।
मिथस्ते न विभाष्यन्ते गवाक्षः, संशितव्रतः ॥" इति शाच्छोरिति सूत्रे भाष्ये स्पष्टम् । गवाक्ष इति । गवां किरणानामक्षीवेति विग्रहः । अक्षणोऽदर्शनादित्यच् । पुंस्त्वं लोकात् । 'वातायनं गवाक्षः स्यात्' इत्यम
। इन्द्रे च । गोः, अवङ्, अचीत्यनुवर्तते । तदाह-गोरिति । विकल्पनिवृत्त्यर्थः पुनरारम्भः । गवेन्द्र इति । गो इन्द्र इति स्थिते अवङ् आदूगुणः ।
For Private and Personal Use Only