________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ४]
बालमनोरमासहिता।
अथ प्रकृतिभावः ॥४॥ (१०) प्लुतप्रगृह्या अचि नित्यम् ६१।१२५॥ प्लुताः प्रगृह्याश्च वक्ष्यन्ते, तेऽचि परे नित्यं प्रकृत्या स्युः । एहि कृष्ण ३ अत्र गौश्वरति । हरी एतौ । 'नित्यम्' इति किम् । 'हरी एती' इत्यादावयमेव प्रकृतिभावो यथा स्यात् , 'इकोऽसवर्णे'-(सू ९१ ) इति ह्रस्वसमुच्चितो मा भूत् । (8) इकोऽसवणे शा. कल्यस्य ह्रस्वश्च ६११२७॥ पदान्ता इकोऽसवर्णेऽचि परे प्रकृत्या स्यहेस्वश्च चा। अत्र ह्रस्वविधिसामर्थ्यादेव प्रकृतिभावे सिद्ध तदनुकर्षणार्थश्वकारो न कर्तव्यः'
___ अथ प्रकृतिमाव इति । निरूप्यत इति शेषः । प्लुतप्रगृयाः। वक्ष्यन्त इति । दूराद्धृते चेत्यादिना ईदूदेदित्यादिना चेत्यर्थः। प्रकृत्येति । प्रकृत्यान्तः पादमित्यतस्तदनुवृत्तेरिति भावः । प्रकृत्या स्वभावेनावस्थिताः स्युरित्यर्थः । संधयो न भवन्तीति यावत् । एहि कृष्ण ३ अत्रेति । दूरादूधूते चेति णकाराइकारः प्लुतः । तस्य अकारे न सवर्णदीर्घः । हरी एताविति । ईदूदेदिति रेफादीकारः प्रगृह्यः तस्य यणादेशो न भवति । ननु सर्वत्र विभाषेति पूर्वसूत्रे विभाषेत्यस्य अस्वरितत्वादेव निवृत्तिसिद्धेरिह नित्यग्रहणं किमर्थमिति पृच्छति-नित्य मितिकिमिति । उत्तरमाह-हरी एताविति । नित्यग्रहणे सत्येव हरी एतावित्यादौ प्लुतप्रगृह्या अचीत्ययमेव केक्लः प्रकृतिभावः स्यादित्यर्थः । यथाशब्दो योग्यतायाम् । अयमेव प्रकृतिभावः प्राप्तुं योग्यः । स च नित्यग्रहणे सति प्राप्नुयादित्यर्थः । एवमप्रेऽप्येवंजातीयकेषु । एक्शब्दव्यवच्छेद्यं दर्शयति-इक इति । 'इकोऽसवणे शाकल्यस्य हस्वश्च' इति वक्ष्यमाणः ह्रस्वसमुच्चितः प्रकृतिभावः माभूत् न भवेत् । माडि लुङ् सर्वलकारापवादः। अकृते सति नित्यग्रहणे परत्वात् शाकलहस्वसहितप्रकृतिभावः प्रसज्येत । नित्यग्रहणे कृते तु तत्सामर्थ्यादेव परमपि शाकलं हस्वसमुचितप्रकृतिभावं प्लुतप्रगृह्या इति केवलः प्रकृतिभावो बाधत इत्यर्थः । इकोऽसवर्ण । इक इति षष्ठी। एङः पदान्तादित्यतः पदान्तादित्यनुवर्तते । तच्च षष्ठयन्ततया विपरिणम्यते । अचीति चानुवर्तते । ततश्च पदान्तस्येकः असवणेऽचि परे ह्रस्वः स्यादित्येकं वाक्यम् । चकारात् प्रकृत्यान्तःपादम् इत्यतः प्रकृत्येत्यनुकृष्यते । हस्व इति तत्रापि सम्बध्यते । ततश्च उक्तो हस्वः प्रकृत्या स्वभावेन अवतिष्ठत इति वाक्यान्तरं सम्पद्यते । फलितमाह-पदान्ता इक इत्यादिना। यदि चकारो न क्रियेत, तर्हि पदान्तस्य इकः असवणेऽचि हस्वः स्यादित्येव लस्येत । तस्य हस्वस्य प्रकृतिभावो न लभ्येत । ततश्च चक्री अत्रेति स्थिते ईकारस्य हस्वे सति तस्य यणादेशे चक्रयत्रे. त्येव स्यात् । चक्रि अत्रेति हस्वसमुचितप्रकृतिभावविशिष्टं रूपं न स्यात् । इष्यते तदपि । अतः प्रकृत्येत्यनुकर्षणार्थश्चकार आवश्यक इति सूत्रकारस्य हृदयम् ।
For Private and Personal Use Only