________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[अजन्तपुंलिङ्ग
-
-
-
(२२५) विभाषा जसि १११॥३२॥ जसाधारं यत्कार्य शीभावाख्यं तत्र कर्तव्ये द्वन्द्वे उक्ता संज्ञा वा स्यात् । वर्णाश्रमेतरे-वर्णाश्रमेतराः। शीभावं प्रत्येव विभाषेत्युक्तम् , भतो नाकच् , किंतु कप्रत्यय एव । वर्णाश्रमेतरकाः ॥ (२२६) प्र. थमचरमतयाल्पाकतिपयनेमाश्च ११॥३३॥ एते जसः कार्य प्रत्युत्तसंज्ञा वा स्युः । प्रथमे, प्रथमाः। शेष रामवत् । तयप् प्रत्ययस्ततस्तदन्ता ग्राह्याः ।
-
-
अवर्णान्तादङ्गात् परस्य सर्वनाम्नो विहितस्यामः सुडित्येव व्याख्येयम् । विभाषा जसि । सर्वनामग्रहणमनुवर्तते, द्वन्द्व इति च । जसि इत्यविभक्तिको निर्देशः । जसः इ. जसिः । आर्षः सप्तम्या लुक् । इशब्द इवर्णपरः सन् शी इतीकारमाचष्टे । ततश्च जसादेशे शीभावे कर्तव्ये इति फलितम् । तदाह-जसाधारमिति । जस आधारो यस्येति बहुवीहिः । जस्स्थानिकमित्यर्थः । ननु जसि परतो द्वन्द्वे सर्वनामसंज्ञा वा स्यादित्येव कुतो न व्याख्यायत इत्यत आह-शीभावं प्रत्येवेत्यादिना। यदि तु अकच् स्यात्, तहि तस्याव्यवधायकत्वाच्छीभावः प्रसज्येत । कप्रत्यये तु सति तेन व्यवधानानोक्तदोष इत्याह-वर्णाश्रमेतरका इति । नचाचि कर्तव्ये विकल्पाभावेऽपि सर्वादीनीति नित्या सर्वनामसंज्ञा कुतोऽत्र न स्यादिति वाच्यम् , 'द्वन्द्वे च इति तस्याः नित्यनिषेधात् । नच द्वन्द्वे चेति निषेधस्य उक्तरीत्या अवयवेषु प्रवृत्त्यभावाद्वर्णाश्रमेतरशब्दे समुदाये इतरशब्दस्यावयवस्य सर्वनामत्वानपायादकज्दुर इति वाच्यम् , द्वन्द्वावयवमाने सुन्दरादिविशेषणान्वयाभाववत् कुत्सादिविवक्षाया अभा. वात् । समुदाये तद्विवक्षायां समुदायोत्तरप्रत्ययेन अवयवगतकुत्सादेरपि बोधेनोक्तार्थत्वादवयवेभ्यः पृथक् तदनुत्पत्तेः । अन्यथा अवयवेभ्यः प्रत्येक कप्रत्ययापत्तेः । एतदेवाभिप्रेत्योक्तं भाष्ये-'वर्णाश्रमेतरशब्दे अकच् न भवति' इति । एवंच यदा इतर. शब्देन द्वन्द्वं कृत्वा कुत्सिता वर्णाश्रमेतरा इति कुत्सायोगः क्रियते तदा कप्रत्यये सति वर्णाश्रमेतरका इत्येव रूपम् । यदा तु कुत्सितः इतरः इतरक इति अकचं कृत्वा वर्णाश्च आश्रमाश्च इतरकश्चेति द्वन्द्वः क्रियते, तदा शीभावविकल्पः स्यादेव ।
प्रथमचरमतया। विभाषा जसीत्यनुवर्तते, सर्वनामानीति च। तदाह-एत इति । प्रथमादय इत्यर्थः । उक्तसंज्ञा इति । सर्वनामसंज्ञका इत्यर्थः । तत्र नेमशब्दस्य जसि सर्वनामसंज्ञा गणे पाठान्नित्या प्राप्ता । तद्विकल्पोऽत्र विधीयते । नेमशब्दव्यातरि. कानां प्रथमादशब्दानां तु गणे पाठाभावादप्राप्तैव सर्वनामसंज्ञा जसि विकल्पेन विधीयते । अतः नेमशब्दव्यतिरिकानां प्रथमादिशब्दानां जसोऽन्यत्र न सर्वनामका
यमित्याह-शेष रामवदिति । तयशब्दो न प्रातिपदिकमित्याह-तयप्प्रत्यय इति । 'संख्याया अवयवे तयफ्' इति विहित इति शेषः । तत इति । तस्मात् प्रत्ययत्वा
For Private and Personal Use Only