________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ८ ]
बालमनोरमासहिता ।
१४६
द्वितये, द्वितयाः । शेषं रामवत् ।
·
नेमे नेमाः । शेषं सर्ववत् । 'विभाषा प्रकरणे तीयस्य ङित्सूपसङ्ख्यानम्' ( वा २४२) । द्वितीयस्मै, द्वितीयाय इत्यादि । एवं तृ. तीयः । अर्थवद्ग्रहणान्नेह | पटुआतीयाय । निर्जरः ॥ ( २२७ ) जराया जर सन्यतरस्याम् ७|२| १०१ ॥ जराशब्दस्य जर स् वा स्यादजादो विभक्तौ । 'पदाङ्गाधिकारे तस्य च तदन्तस्य च ' ( प. ३० ) । अनेकात्वात्सर्वादेशे प्राप्ते
देतोः प्रत्ययग्रहणपरिभाषया तदन्ताः तयबन्ता ग्राह्या इत्यर्थः । द्वितये द्वितया इति । द्वाववयवावस्येत्यर्थं तयप् । यद्यप्यवयवसमुदायः अवयवी तयबर्थः, तस्य च एकत्वादेकवचनमेव युक्तम् । तथापि यदा उद्भूतावयवभेदः समुदायस्तयबर्थः, उद्भूतत्वं च विवक्षितसाकत्वम्, तदा अवयवबहुत्वाभिप्रायम्, अवयविनः अवयवाभेदाभिप्रायं वा बहुवचनमिति न दोषः । अत्र च तयब्ग्रहणमेव प्रमाणम् । अन्यथा तयबन्ताज्जस एवाभावात् किं तेन । चरमे चरमाः, अल्पे अल्पाः, अर्धे, अर्धाः, कतिपये कतिपयाः, इत्यपि प्रथम शब्दवदुदाहार्यम् । अर्धशब्दस्त्वेकदेशवाची पुंलिङ्गः । समांशवाची तु नपुंसकलिङ्ग: । 'वा पुंस्यर्धोऽधं सर्वेऽशके' इति कोशात् । शेषं सर्ववदिति । नेमशब्दस्य सर्वादिगणे पाठादिति भावः । विभाषाप्रकरण इति । विभाषा जसीत्यधिकारे तीयान्तस्य - ङसि - ङस् -डि-इत्येतेषु ङित्सु परेषु सर्वनामसंज्ञावचनं कर्तव्यमित्यर्थः । द्वितीयस्मै द्वितीयायेति । द्वयोः पूरणो द्वितीयः । द्वेस्तीय इति पूरणे तीयप्रत्ययः । इत्यादीति । द्वितीयस्मात् द्वितीयात्, द्वितीयस्मिन् द्वितीये इत्यादिशब्दार्थः । एवं तृतीय इति । ङित्सुदाहार्य इति शेषः । 'त्रेः सम्प्रसारणं च' इति पूरणे तीयप्रत्ययः । रेफस्य सम्प्रसारणम् ऋकारः । 'सम्प्रसारणाच्च' इति पूर्वरूपम् । ननु 'प्रकारवचने जातीयर' इति पटुशब्दात् जातीयरि पटुजातीयशब्दः । तस्यापि तीयान्तत्वात् डिल्स सर्वनामत्वविकल्पः स्यादित्यत आह- अर्थवदिति । 'अर्थवद्ग्रहणे नानर्थकस्य' इति परिभाषया अर्थवानेव तीयोऽत्र गृह्यते । जातीयरि तु समुदायस्यैवार्थवत्वं न तु तदेकदेशस्येति भावः ।
9
निष्क्रान्तो जराया निर्जरः । 'निरादयः क्रान्ताद्यर्थे' इति समासः । 'गोस्त्रियोः ' इति स्वत्वम् । निर्गता जरा यस्मादिति बहुव्रीहिर्वा । अस्य निर्जरशब्दस्य विशेषं दर्शयितुमाह-- जराया: । 'अष्टन आ विभक्तौ' इत्यतो विभक्तावित्यनुवृत्तम् 'अचि र ऋत:' इत्यतोऽनुवृत्तेन अधीत्यनेन विशेष्यते । 'यस्मिन् विधिः' इति तदादिविधिः । तदाह - जराशब्दस्येत्यादिना । ननु जराशब्दस्य विधीयमानो जरसादेशः कथं निर्जरशब्दस्य भवेदित्यत आह-पदेति । पदाधिकारे अङ्गाधिकारे च यस्य द्विहितं तत् तस्य तदन्तस्य च भवतीत्यर्थः । जरसादेशश्चायमङ्गाधिकार
For Private and Personal Use Only