________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१५०
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ अजन्त पुंलिङ्ग -
'निर्दिश्यमानस्यादेशा भवन्ति' ( प १३) । एकदेशविकृतस्यानन्यत्वात् जरशब्दस्य जरस् । निर्जरसौ । निर्जरसः । इनादीन्बाधित्वा परत्वाज्जरस् । निर्जरसा । निजरखे । निर्जरसः । पक्षे इलादौ च रामवत् । वृत्तिकृता तु 'पूर्वविप्रतिषेधेनेनातोः
1
1
स्थत्वात् जराशब्दस्य तदन्तस्य च भवति । जरसावित्यादौ तु व्यपदेशिवद्भावेन तदन्तत्वं बोध्यम् । यद्यपि जराया इत्यस्य अङ्गविशेषणत्वादेव तदन्तविधिः सिद्धः, तथापि येन विधिरित्यस्य प्रपञ्चभूतेयं परिभाषेत्यदोषः । अत एव 'पदमङ्गं च विशेष्यं विशेषणेन च तदन्तविधिः' इति प्रौढमनोरमायामुक्तम् । ननु जराशब्दान्तस्य विधीयमानो जरसादेशः निर्जरशब्दस्य कृत्स्नस्य स्यात्, अनेकाल्त्वादित्याक्षिप्य समाधत्ते - अनेकाल्त्वादिति । निर्दिश्यमानस्यादेशा भवन्तीति । प्रत्यक्षनिर्दिश्यमानस्यवेत्यर्थः । अनया परिभाषया जराशब्दस्यैव जरस् । जराशब्द एव ह्यत्र स्थानी प्रत्यक्षनिर्दिष्टः । जराशब्दान्तस्य तु निर्देशस्तदन्तविधिलभ्यत्वात् आनुमानिक इति भावः । इयञ्च परिभाषा ' षष्ठी स्थानेयोगा' इति सूत्रसिद्धार्थकथनपरेति तत्रैव भाष्ये स्पष्टम् । ननु निर्जरशब्दस्य जराशब्दान्तत्वाभावात् कथमिह जरसादेश इत्यत आह - एकदेशेति । 'छिन्नेऽपि पुच्छे वा श्वैव, न चाश्वो न च गर्दभ' इति न्यायादिति भावः । निर्जरसौ । निर्जरस इति । प्रथमाद्वितीययोः द्विवचने बहुवचने च रूपम् । अमि निर्जरसमित्युदाहार्यम् । ननु तृतीयैकवचने पञ्चम्येकवचने च, निर्जर आ, निर्जर अस् इति स्थिते नातोः कृतयोः जरसादेशे निर्जरसिन निर्जरसादिति प्राप्तम् । तथा चतुथ्येकवचने षष्ठयेकवचने च, निर्जर ए, निर्जर अस्, इति स्थिते, यादेशे, स्यादेशे च सति अजादिविभक्त्यभावात् जरसादेशाभावे, निर्जराय निर्जरस्येति प्राप्तम् । तदाह - इनादीनिति | इन - य - आत्-स्य इत्यादेशान् नुटं च परत्वात् बाधित्वा जर-सादेशः । ततश्च अदन्तत्वाभावात् इनादयो न भवन्तीत्यर्थः । निर्जरसेति । तृतीयैकचचनम् । निर्जरसे इति । चतुथ्येंकवचनम् । निर्जरस इति । पञ्चम्येकवचने षष्ठयेकवचने च रूपम् । निर्जरसोः निर्जरसां निर्जरसीत्यप्युदाहार्यम् । पक्ष इति । जरसादेशाभावपक्ष इत्यर्थः ॥ इलादौ चेति । भिस ऐसादेशे निर्जरैरित्येव रूपम् । न तु जरसादेशे निर्जरसैरिति । अदन्तमङ्गमाश्रित्य प्रवृत्तस्य ऐसः सन्निपातपरिभाषया तद्विघातक - जरसादेश निमित्तत्वायोगात् ।
I
अथ वृत्तिकृदुत्प्रेक्षितं मतान्तरं दूषयितुम् अनुवदति - वृत्तिकृता स्वित्यादिना । पूर्वविप्रतिषेधेनेत्यादि केचिदित्यन्तो वृत्तिग्रन्थः । वृत्तिकृता तु इनातोः कृतयोः जरसिकृते निर्जरसिन निर्जरसादिति रूपम्, नतु निर्जरसा निर्जरस इति केचिदित्युक्तमित्यन्वयः । ननु इनादेशमादादेशं च परत्वात् बाधित्वा जरसि कृते, अदन्तत्वाभावात् कथमिनातौ स्यातामित्यत आह- पूर्वविप्रतिषेधेनेति । विप्रतिषेधे पूर्वस्य प्रवृत्तिर्यत्र
For Private and Personal Use Only