________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ८]
बालमनोरमासहिता ।
१४७
वाक्येऽपि न । मासेन पूर्वाय ॥ (२२४) द्वन्द्व च शश३१॥ द्वन्द्वे उक्तसंज्ञा न । वर्णाश्रमेतराणाम् । समुदायस्यैवायं निषेधः, न त्ववयवानाम् । नचैवं तद. न्तविधिना सुट्प्रसङ्गः । सर्वनाम्नो विहितस्यामः मुडिति व्याख्यातत्वात् ॥
-
किकविग्रहवाक्यरूपगौणसमासस्यापि परिग्रहार्थम् । ततश्च फलितमाह-तृतीयासमासार्थेति ।
द्वन्द्वे च । सर्वादीनीत्यतः सर्वनामग्रहणं न बहुव्रीहौ' इत्यतो नेति चानुवर्तते । तदाह-द्वन्दे उक्तसंशा नैति । सर्वनामसंज्ञा नेत्यर्थः । वर्णाश्रमेतराणामिति । 'वर्णाश्रमेत. राणां नो ब्रूहि धर्मानशेषतः' इति याज्ञवल्क्यस्मृतिः। वर्णाश्च आश्रमाश्च इतरे चेति द्वन्द्वः । अत्र सर्वनामत्वाभावादामि सर्वनाम्न इति न सुट् । समुदायस्यैवेति । द्वन्द्व विद्यमानानि यानि सर्वादीनि तानि सर्वनामानि न स्युरिति नार्थः। विद्यतिक्रिया. ध्याहारे गौरवात् । किन्तु द्वन्द्वे सर्वनामसंज्ञा न भवतीति प्रधानभूतया निषेध्यभव. नक्रिययैव द्वन्द्वस्याधारतयान्वयः । द्वन्द्वाधारा सर्वनामसंज्ञा न भवतीत्यक्षरार्थः । द्वन्द्वस्य सर्वनामसंज्ञा नेति फलितम् । वर्णाश्रमतरेत्यादिसमुदायस्यैव द्वन्द्वता । नतु तदवयवानाम् । एवंच वर्णाश्रमतरेत्यादिसमुदायस्यैव सर्वनामत्वनिषेधः, नतु तदवयवानामिति वस्तुस्थितिकथनम् । ननु द्वन्द्वावयवानां सर्वनामत्वनिषेधाभावे वर्णाश्रमेतरशब्दे इतरशब्दस्य सर्वनामतया ततः परस्यामः सुटि वर्णाश्रमेतरेषामिति स्यात् । नच अवर्णान्तात् सर्वनाम्नोऽङ्गात् परस्यामः सुविधानादिह चामि परे इतरशब्दस्य सर्वनामत्वेऽप्यङ्गत्वाभावान्न ततः परस्यामः सुदप्रसक्तिरिति वाच्यम् । सुविधियमङ्गाधिकारस्थः। ततश्च ‘पदाङ्गाधिकारे तस्य च तदन्तस्य च इति परिभाषया सर्वनामान्ताददन्तादङ्गात् परस्यामः सुद् विधीयते । ततश्च वर्णाश्रमेतरशब्दस्य समु. दायस्य द्वन्द्वतया सर्वनामत्वनिषेधेऽपि तदवयवस्य इतरशब्दस्य सर्वनामतया तदन्ताङ्गात् परत्वादामः सुट् स्यात् । न चैवं सति द्वन्द्वस्य तन्निषेधो व्यर्थः स्यादित्या. शङ्कयम् , पदाङ्गाधिकारादन्यत्र तसिल्बलादिविधौ तन्निषेधस्यार्थवत्त्वादित्याशय परिहरति-न चैवमित्यादिना । एवमित्यनन्तरं सतीति शेषः । एवं समुदायस्यैव निषेधे सति तदन्तविधिना सुदप्रसङ्गो नेत्यन्वयः । कुत इत्यत आह-सर्वनाम्नो विहितस्येति । अवर्णान्तादङ्गात् परस्य सर्वनाम्नो विहितस्यामः सुडिति व्याख्यानादि. त्यर्थः। प्रकृते च वर्णाश्रमेतरशब्दात् समुदायादाम् विहितः, न च स समुदायः सर्वनामसंज्ञकः, द्वन्द्वस्य तन्निषेधात् । इतरशब्दस्तु सर्वनामसंज्ञकः, न ततो विहितः आम् । आमः समुदायादेव विधानात् । अतो न सुडिति भावः । अवर्णान्तादङ्गात् सर्वनाम्नो विहितस्यामः सुडिति व्याख्याने तु येषां तेषामित्यत्राव्याप्तिः । अतः
For Private and Personal Use Only