________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३७ ]
बालमनोरमासहिता ।
कार्ययोः ५ ||२०|| शाळाप्रवेशमर्हति शालीनोऽधृष्टः । कूपपतनमर्हति कौपीनं पापम् । तत्साधनत्वात्तद्वद्गोप्यखात् वा पुरुष लिङ्गमपि, तत्सम्बन्धात्तदाच्छादनमपि । (१८२२) व्रातेन जीवति ५/२१२१ ॥ वातेन शरीरायासेन जीवती न तु बुद्धिवैभवेन स व्रातीनः । (१८२३) लाप्तपदीनं सख्यम् ५|२|२२|| सप्तभिः पदैरवाप्यते खाप्तपदीनम् । (१८२४) हैयङ्गवीनं सञ्ज्ञायाम् ५।२।२३ ॥ ह्योगो दोहस्य हियङ्गुरादेशो विकारार्थे खञ् च निपात्यते । दुह्यत इति दोहः क्षीरम् । योगोदोहस्य विकारो हैयङ्गवीनम् नवनीतम् । (१८२५) तस्य पाकमूले पोल्वादिकर्णादिभ्यः कुणब्जाहचौ ५|२|२४|| पीलून पाकः पीलुकुणः । कर्णस्य मूलं कर्णजाहम् । (१८२६) पक्षान्तिः प्रा२/२५॥ मूलग्रहणमात्रमनुनिपात्येते' इति भाष्यम् । श्रधृष्ट इति । अप्रगल्भ इत्यर्थः । अप्रागल्भ्यादन्यत्र गन्तुमशक्तः शालाप्रवेशमे बार्हति यः सः शालीन इति यावत् । कूपपतनमिति । कूपावतर-णशब्दस्य विवरणमिदम् । कूपशब्दो नरकाभिधायी । कौपीनं पापमिति । नरकपतन - साधनमकार्य पापमित्यर्थः । अनयोरर्थयोरेतौ रूढौ । ननु पुरुषलिङ्गे कथं कौपीनशब्द: इत्यत आह- तत्साधनत्वादिति । पापसाधनत्वाद्वा, पापवदाच्छादनीयत्वाद्वा पुरुषलिङ्ग कौपीनशब्दो लाक्षणिक इत्यर्थः । तत्सम्बन्धादिति । कौपीनशब्दस्य लक्ष्यपुरुबलिङ्गसम्बन्धात् तदाच्छादनवस्त्रखण्डे कौपीनशब्दो लक्षितलक्षणया प्रयुज्यत इत्यर्थः । व्रातेन जीवति । व्रातशब्दात्तृतीयान्तात् जीवतीत्यर्थं खञ् स्यादित्यर्थः । नानाजाती - यानाम् अलब्धजीवनद्रव्याणां भारवहनादिकष्टकर्मजीविनां सङ्घो घातः । तस्य यज्जीवनार्थं कष्टं कर्म तदिह व्रातम् इति भाष्यम् । तादृशसङ्घवाचिनो व्रातशब्दात् 'तस्येदम्' इत्यणि प्रातशब्दोऽत्र तदीयकर्मणि विवक्षित इति तदाशयः । तदाहशरीरायासेनेति ।
1
८५१
1
1
साप्तपदीनम् । सप्तपदशब्दात् तृतीयान्तादवाप्यं सख्यमित्यर्थं खनि साप्तपदीनमिति भवतीत्यर्थः । सप्तभिः पदैरिति । पदविक्षेपैरित्यर्थः । हैयङ्गवीनम् । ह्य इत्यव्ययं पूर्वेद्युरित्यर्थे । तत्रोत्पन्नो गोदोहः - गोपयः द्योगोदोहः । तस्मात् षष्ठ्यन्तात् विकारार्थं खजनादेशे प्रकृतेः हियङ्ग इत्यादेशे ओर्गुणे अवादेशे आदिवृद्धौ हैयङ्गवीनमिति भवति सज्ञायाम् इति भाष्यम् । तदाह - ह्योगोदोहस्येत्यादिना । नवनीतमिति । भाष्ये तु 'हैयङ्गवीनं घृतम्' इति दृश्यते ' तत्तु हैयङ्गवीनं स्यात् झोगोदोहोद्भवं घृतम्' इत्यमरः । तस्य पाकमूले । पाकमूले इति समाहारद्वन्द्वात्सप्तमी । पाकः: परिणामः । षष्ठयन्तेभ्यः पीत्वादिभ्यः पाकेऽर्थे कुणप् । कर्णादिभ्यस्तु मूलेऽर्थे जाहजित्यर्थः । कुणपस्तद्धितत्वात् ककारस्य नेत्सञ्ज्ञा । जाहचस्तु जकारस्य प्रयोजना-
For Private and Personal Use Only