SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५६ सिद्धान्तकौमुदी [स्त्रीप्रत्यय भक्तिमाश्रित्य 'असुपः' इति प्रतिषेधात् । अनेषका। परमेषका । अदके । परमद्वके। स्वशब्दप्रहणं संज्ञोपसर्जनार्थम् । इह हि 'भातः स्थाने' इत्यनुवृत्तं स्वशब्दस्यातो त्तिर्नास्ति । सच टाप न सुपः पर इति चेत् , अत्र ब्रूमः-अन्तरङ्गानपि विधीन् बहि. रङ्गो लुक् बाधते' इति परिभाषया 'सुपो धातुप्रातिपदिकयोः' इति सुब्लुग्विषये अन्तरङ्गोऽपि हल्ङ्यादिलोपो न प्रवर्तते। अतः राजकुमारीत्यादौ श्रूयमाणे एव सुपि समासः प्रवर्तते । एवंच गोमान् प्रियो यस्य सः गोमत्प्रियः इत्यत्र गोमच्छ. ब्दात् सोलुका लुप्तत्वात् 'उगिदचाम्' इति नुमुपधादीर्घादिकं न इति 'प्रत्ययोत्तरपदयोश्च' इति सूत्रभाष्ये स्थितम् । 'कृत्तद्धितः इति सूत्रे प्रौढमनोरमायां परिष्कृत. मेतत् । एवंच नञ् सु एतकदू सु इति स्थिते, नञ्तत्पुरुषे कृते, 'अन्तरङ्गानपि' इति न्यायेन त्यदायत्वप्रवृत्तः प्रागेव सामासिकलुकि, अनेतकदशब्दात् समासात्पुनः सौ, सत्वे, त्यदाद्यत्वे पररूपे, टापि, सवर्णदीर्धे, सोहेल्ड्यादिलोपे, अनेषकेति भवति । अत्र सवर्णदीर्घप्रवृत्तेः प्राक्समासात्पूर्वोत्पन्नसुपः पर एव टाप् भवतीत्यास्तां तावत् । श्रद्वके इति । न सु द्वकि नौ इति स्थिते, नञ्तत्पुरुषे 'अन्तरङ्गानपि' इति न्या. येन त्यदायत्वप्रवृत्तेः प्रागेव समासे औडो लुकि कृते, अद्वकिशब्दात् समासा. त्पुनरौडि, त्यदाद्यत्वे पररूपे, टापि, औडवशीभावे, आद्गुणे, अद्वके इति भवति । अत्रापि समासात्पूर्वोत्पन्नादौङः सुपः पर एव टाबिति भावः। एवं परमद्वके इत्यत्रापि। । स्यादेतत्-आत्मात्मीयज्ञातिधनवाची स्वशब्दः। तत्र ज्ञातावात्मान च पुंलिङ्ग एव, आत्मीये तु विशेष्यनिघ्नस्त्रीलिङ्गः । धने तु पुंनपुंसकलिङ्गः, 'स्वो ज्ञातावा. त्मनि स्वं विष्वात्मीये स्वोऽस्त्रियां धने ।' इति कोशात् । यदा तु स्त्रीव्यक्तिविशेषस्य स्वशब्दः संज्ञा, तदापि स्त्रीलिङ्गः। तत्र 'स्वमज्ञातिधनाख्यायाम्' इत्युक्तेः ज्ञातिधनवाचित्वे सर्वनामत्वं नास्ति । आत्मात्मीयवाचिन एव सर्वनामता, साव्यनुपसर्जनस्यैव भवति, 'संज्ञोपसर्जनीभूतास्तु न सर्वादयः' इत्युक्तेरिति स्थितिः । तत्रात्मीयायां वाच्यायां सर्वनामत्वात् अकचि, टापि, 'प्रत्ययस्थात्' इति नित्यमित्त्वे, स्विकेत्येवेष्यते । तत्तु न युज्यते। 'भस्त्रैषा' इत्यादिना इत्त्वविकल्पस्य दुर्वारत्वात् । नचात्र अकजकारस्य आत्स्थानिकत्वाभावान्नायमित्त्वविकल्प इति वाच्यम्, एषामत इद्वा स्यादिति विवरणवाक्ये आतः स्थाने इत्यनुवृत्तेरदर्शनादित्यत आहस्वशब्दग्रहणं संशोपसर्जनाथमिति। स्वशब्दस्य संज्ञाभूतस्य सर्वनामत्वाभावादकजभावे, स्त्रियां टापि, सौ कृते, स्वार्थिककप्रत्यये, उक्तरीत्या 'अन्तरङ्गानपि विधीन् बहिरङ्गो लुक् बाधते' इति परिभाषया हल्ल्यादिलोपं बाधित्वा प्रातिपदिकावयव. स्वात् सोलुंकि, 'केऽणः' इति हस्वे, कप्रत्ययान्तात् पुनष्टापि, स्वकाशब्दः । निर्गता For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy