________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ४ ]
बालमनोरमासहिता ।
ईश्कारः प्लुतोऽचि परे ऽप्लुतवद्वा स्यात् । चिनु हि ३ इति - चिनु हीति । चिनु हि३ इदम् - चिनु हीदम् । उभयत्र विभाषेयम् ॥ (१००) ईदूदेद्विवचनं प्रगृ. ह्यम् १|१|११॥ ईदूदेदन्तं द्विवचनं प्रगृह्यसब्ज्ञं स्यात् । हरी एतौ । विष्णू इमौ । गङ्गे अमू । पचेते इमौ । 'मणी वोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम' इत्यत्र स्विवार्थे वशब्दो वाशब्दो वा बोध्यः । (१०१) मदसो मात् १|१|१२|| अस्मा
૭૭
इको यणचीत्यतः अचीत्यनुवर्तते । चाक्रवर्मणमुनेर्मते ईकारः अचि परे अप्लुतवद्धवति, नत्वन्यमत इत्यर्थः । तदाह - प्लुतोऽचि परेऽप्लुतवद्वेति । चिनु हि इदमिति । किं मया कर्तव्यमिति पृष्टस्येदं प्रतिवचनम् । चिनु इति लोडन्तम् । उत्तवच प्रत्ययादिति हेर्लुक् । हि इति त्वव्ययम् । 'विभाषा पृष्टप्रतिवचने हे:' इति प्लुतः । चिनु -इत्यतः प्राक् देवदत्तेत्यध्याहार्यम् । इदमिति तु वाक्यान्तरस्थम्, नतु चिनु इत्येतेन एकवाक्यतामापन्नम् । अन्यथा वाक्यस्य टेरित्यधिकारात् हिशब्दे इकारस्य प्लुतो न स्यात् । उभयत्रेति । इतिशब्दे परतो नित्यतया प्राप्ते, तदन्यत्र अप्राप्ते चारम्भादुभयत्र विभाषेयमित्यर्थः । विभाषाशब्दस्तु अव्ययमिति न भ्रमितव्यम्, नवेति विभाषायामिति भाष्यप्रयोगात् । विभाष्यते विकल्प्यत इति विभाषा । गुरोश्च हल इत्यप्रत्ययः । टाप् ।
ईदूदेद्विवचनम् । ईश्च ऊच्च एच्चेति समाहारद्वन्द्वः । ईदूदेदिति द्विवचनविशेषणत्वात्तदन्तविधिः । द्विवचनमित्यनेन तु प्रत्ययत्वेऽपि न तदन्तं गृह्यते, संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्तीति तन्निषेधात् । तदाह - ईदूदेदन्तमित्यादिना । ह पताविति । अत्र ईकारस्य परादिवस्वाश्रयणात् द्विवचनत्वम् । प्रगृह्यत्वे सति प्लुतप्रगृह्या इति प्रकृतिभावान्न यण् । विष्णु इमावित्यत्राप्येवम् । गङ्गे अमू इत्यत्र तु अयादेशो न भवति । ईदूदेदन्तमिति तदन्तविधेः प्रयोजनं दर्शयितुमाह - पचेते इमाविति । तदन्तविध्यभावे ईदूदेदात्मकं द्विवचनं प्रगृह्यमिति लभ्येत । एवं सति पचेते इत्यत्र इते इति द्विवचनस्य एद्रूपत्वाभावात् प्रगृह्यत्वं न स्यादिति भावः । ईदूदेदन्तं यद्विवचनान्तमिति व्याख्याने तु कुमार्योरगारं कुमार्यगारमित्यत्रातिप्रसङ्गः स्यात् । ईदूदेदन्तं द्विवचनमिति व्याख्याने तु नातिप्रसङ्गः । ओसो द्विवचनस्य ईदूदेदन्तत्वाभावात् । 'ननु 'मणीवोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम' इति भारतश्लोके मणी इवेति ईकारस्य प्रगृह्यत्वे सति प्रकृतिभावे सवर्णदीर्घो न स्यादित्यत आह- मणीवोष्टस्येत्यादिना । 'वं प्रचेतसि जानीयादिवार्थे च तदव्ययम् ।' इति मेदिनी । 'व वा यथा तथैवैवं साम्य' इत्यमरः ।
अदसो मात् । अदस इत्यवयवषष्ठी । अदशब्दावयवान्मकारादित्यर्थः । ईदूदिति प्रगृह्ममिति चानुवर्तते । मादिति दिग्योगे पञ्चमी । परशब्दोऽध्याहार्यः । तदाह
For Private and Personal Use Only