________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[प्रकृतिभाव
-
त्परावीदूतौ प्रगृह्यौ स्तः । अमी ईशाः। रामकृष्णावमू आसाते । 'मातृ' किम् । अमुकेऽत्र । असति मागहणे एकारोऽप्यनुवर्तेत ॥ (१०२) शे ॥२॥१३॥ अयं अस्मात् पराविति । अदश्शब्दावयवमकारात् परावित्यर्थः। एदिति नानुवर्तते, अद. श्शब्दे मकारात् परस्य एकारस्यासम्भवात् । द्विवचनमित्यपि नानुवर्तते, अदरशब्दे मकारात् परस्य ईकारस्य अमी इति बहुवचनत्वात् ऊकारस्य च मकारात्परस्य तत्र द्विवचनान्तेष्वेव सत्त्वेन व्यावाभावात् । अमी ईशा इति । अदरशब्दाजसि त्यदा. द्यत्वं पररूपत्वं जसरशी आद्गुणः । अदे इति स्थिते एकारस्य एत ईदिति ईत्त्वं दस्य च मत्वम् । अमी इति रूपम् । अत्र ईकारस्य द्विवचनत्वाभावात् पूर्वसूत्रेण प्रगृ. घसंज्ञान प्राप्तेत्यनेन सा विधीयते । रामकृष्णावमू इति । पुलिङ्गाददश्शब्दात् प्रथमाद्विवचने औङि त्यदायत्वं, पररूपत्वं वृद्धिरेचि, अदौ इति स्थिते, अदसोऽसेरित्यौकारस्य ऊत्वम् , दस्य मत्वम् । अमू इति रूपम् । यद्यप्ययमूकारो द्विवचनं भवति, तथापि पूर्वसूत्रेण प्रगृह्यत्वे कर्तव्ये उत्वमत्वयोरसिद्धतया दकारादौकारस्यैव शास्त्रदृष्टया सत्त्वात् पूर्वसूत्रेण तस्य प्रगृह्यत्वं न प्राप्तमित्यनेन विधीयते । अदसोमादिति सूत्रं प्रति तु उत्वमत्वे नासिद्धे, आरम्भसामर्थ्यात् । पूर्वसूत्रस्य तु तत्र न सामर्थ्यम् । हरी एतौ, विष्णू इमावित्यादौ चरितार्थत्वात् । स्त्रियो फले वा अमू आसाते इति स्त्रीलिङ्गो नपुंसकलिङ्गश्च अदश्शब्दो नात्रोदाहरणम् । तथाहि स्त्रीलिङ्गाददश्शब्दात्
औडि, त्यदाद्यत्वे, पररूपत्वे, टापि, औङ आप इति शीभावे, आद्गुणे, अदे इति स्थिते उत्वमत्वयोरमू इति रूपम् । तथा नपुंसकलिङ्गात्तस्मादौडि, त्यदाद्यत्वे, पररू. पत्वे, नपुंसकाच्चेति शीभावे, आद्गुणे, उत्वमत्वयोरमू इत्येव रूपम् । अत्र पूर्वसूत्रे. णैव प्रगृह्यत्वं सिद्धम् । उत्वमत्वयोरसिद्धत्वेऽप्येकारस्य द्विवचनस्य सत्त्वात् । अतः पुंलिङ्ग इव अदशब्दः अत्रोदाहरणमिति प्रदर्शयितुं रामकृष्णावित्युक्तम् । मात्किमि. ति । अदस इत्येव सूत्रमस्तु । मादूग्रहणस्य कि प्रयोजनमिति प्रश्नः । अमुकेऽत्रेति । अव्ययसर्वनामम्नाकच् प्राक्टेः' इत्यकचि अदकश्शब्दाजसि, त्यदायत्वं, पररूपत्वम्, जसरशी, आद्गुणः, उत्वमत्वे, अमुके इति रूपम् । अत्र एकारस्य प्रगृह्यत्वनिवृत्त्यर्थ मादग्रहणम् । कृते च तस्मिन् एकारस्य मात्परत्वाभावान्न प्रगृह्यत्वमिति भावः । नन्वेवमपि मादग्रहणं व्यर्थम् , एग्रहणमनुवर्त्य ईदूतोरेवान प्रगृह्यत्वविधानाभ्युपगमेन अमुके इत्यत्र प्रगृह्यत्वप्रसक्तेरेवाभावादित्यत आह-असतीति । अदसो मादित्यत्र ईदूदेताम् एकसमासपदोपात्तानां मध्ये ईदूतोर्द्वयोरनुवृत्तौ एतोऽप्यनुवृत्तिप्रसक्तौ माद्ग्र. हणादेतोऽनुवृत्तिः प्रतिबद्धा । माद्ग्रहणाभावे तु बाधकामावादेतोऽप्यनुवृत्तिः स्यात्। ततश्च अमुक इत्यत्रापि एकारस्य प्रगृह्यत्वप्रसक्तो तन्निवृत्यर्थे माद्ग्रहणम् । कृते तु तस्मिन् एतोऽनुवृत्तिप्रतिबन्धादमुके इत्यत्र न प्रगृह्यत्वम् । तथा च एकाराननुवृत्ति
For Private and Personal Use Only