________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५८
सिद्धान्तकौमुदी
[ हलन्तपुंलिङ्ग
वक्तव्ये कृतात्वनिर्देशो अरशसोर्विषये मात्वं ज्ञापयति । वैकल्पिकं चेदमष्टन भात्वम् । 'अष्टनो दीर्धात्' (सू ३७९८) इति सूत्रे दीर्घप्रहणाज्ज्ञापकात् । अष्टौ । अष्टौ । परमाडौ । अष्टाभिः । अष्टाभ्यः• अष्टाभ्यः, अष्टानाम् । अष्टासु । भावाभावे अष्ट अष्ट इत्यादि पञ्चवत् । गौणत्वे त्वात्वाभावे राजवत् । शसि स्त्वेव, अष्टन आ विभक्तौ' इति आत्वविधौ हलीत्यपकर्षस्य उक्तत्वात् । ततश्च जरशसोरोथिंधी कृताकारात् अष्टन इत्यनुपपन्नम् । तत्राह-अष्टभ्य इति वक्तव्य इत्यादि । बसि अष्टभ्यः, अष्टाभ्यः इति रूपद्वये सत्यपि औश्विधो लाघवादष्टभ्य इत्येव निर्देश उचितः, आकारनिर्देशात्तु जश्शसोरचि परतोऽप्यात्वं विज्ञायत इत्यर्थः । ननु 'अष्टन मा विभक्तौ इति हलादिविभक्तौ अष्टनो नित्यमात्वविधानात् अष्टाभ्य इत्येव निर्दे. ष्टव्यम् , प्रामाणिकगौरवस्यादोषत्वात्। ततश्च औश्विधौ अष्टाभ्य इति निर्देशः जश्शसोरष्टनः कथमात्वं ज्ञापयेदित्यत आह - वैकल्पिक चेदमिति । शापकादिति । 'अष्ट. नो दीर्घात्' इति सूत्रम् । दीर्घान्तादष्टन्शब्दात् परा असर्वनामस्थानविभक्तिरुदात्ता स्यादिति तदर्थः। अष्टाभिर्विकर्षतीत्यत्र भकारादिकार उदात्तः । 'अनुदात्तं पदमेकवर्जम्' इति शिष्टमनुदात्तम् । दीर्घादिति विशेषणात् अष्टभिरित्यत्र आत्वाभावस्थले भिस उदात्तत्वं न भवति । किन्तु मध्योदात्तत्वमेव, 'झल्युपोत्तमः' इत्यस्य प्रवृत्तेः । षट्चतुभ्यो या झलादिविभक्तिः तदन्ते पदे विद्यमानमुपोत्तममुदात्तं स्यादिति तदर्थः । यदि तु अष्टन आत्वं नित्यं स्यात् तर्हि अष्टभिरिति हस्वान्तव्यावृत्तये क्रियमाणं दीर्घग्रहणमनर्थकं स्यात् , व्यावाभावात् । आत्वस्य विकल्पितत्वे तु तदभावपक्षे अष्टभिरिति व्यावय॑स्य सत्त्वात् दीर्घग्रहणमर्थवत् । अतो दीर्घग्रहणमष्टन आत्वस्य वैकल्पिकत्वे ज्ञापकमित्यर्थः । अष्टाविति । अष्टन्शब्दात् जाशसोरौश् । शित्त्वात् सर्वादेशः । अष्ठाभ्य इति निर्देशात् नकारस्यात्वं, सवर्णदीर्घः, वृद्धिरिति भावः । परमाष्टाविति । 'अष्टाभ्य औश्' इत्यस्य आङ्गत्वात्तदन्तेऽपि प्रवृत्तिरित्यर्थः। अष्टाभिरिति । हलादौ आत्वे सवर्णदीर्घः । अष्टानामिति । आदौ नुटि कृते सति हलादित्वादात्वम् । नच नान्तत्वप्रयुक्तषट्सज्ञकशब्दसन्निपातमुपजीव्य प्रवृत्तस्य नुटः तद्विघातकमात्वं प्रति कथं निमित्तत्वमिति वाच्यम् , नहि षट्सन्निपातेन जातस्य नुटः आत्वेऽपि तद्विघातकत्वम् कृतात्वेऽपि स्थानिवत्त्वेन षट्त्वसत्त्वात् 'शमामष्टानां दीर्घः श्यनि' इत्यादिनिर्देशेन अत्र सन्निपातपरिभाषायाः अनित्यत्वाश्रयणाच्चेति भावः । आत्वाभावे इति । 'अष्टनो दीर्घात्' इति दीर्घग्रहणेनात्वविकल्पस्य ज्ञापितत्वादिति भावः । यद्यपि 'अष्टनो दीर्घात्' इति सूत्रे शसादिविभक्तिषु परतः स्वरविधायके दीर्घग्रहणं शसादिष्वेवात्वविकल्प ज्ञापयितुं शक्नोति नतु जसि । तथापि ज्ञापकस्य सामान्यापेक्षत्वान्जस्यप्यात्वविकल्प इति भावः ।
For Private and Personal Use Only