________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २० 1
बालमनोरमासहिता ।
व्यौ - द्यावापृथिव्यौ । 'छन्दसि दृष्टानुविधिः' । ' द्यावा चिदस्मै पृथिवी । 'दिवस्पृथिव्योररतिः' इत्यत्र पदकाराः विसर्ग पठन्ति । ( 8२८) उषा सोषसः ६ |३|३१|| उषस्शब्दस्योषासादेशो देवताद्वन्द्वे । उषासासूर्यम् । (२६) मातरपितरावुद्दीचाम् ६|३|३२|| मातरपितरौ । उदोचाम् किम् । मातापितरौ । ( ९३०) द्वन्द्वाच्चुदषहान्तात्समाहारे ५|४|१०६ ॥ चवर्गान्ताद्दषहान्ताथ द्वन्द्वाच् स्यात्समाहारे । वाक्च त्वक्च वाक्त्ववम् | त्वक्लजम् । शमीदृषदम् । वाक्तित्वषम् । छत्रोपानहम् । समाहारे किम् । प्रावृट्छरदो ॥ इति द्वन्द्वसमास प्रकरणम् ।
म:' इति रुत्वं नेति भावः । ननु 'द्यावा चिदस्मै पृथिवी सन्तमेते' इत्यत्र दिवशब्दपृथिवीशब्दयोः कथं द्वन्द्वः ? कथं वा दिवो द्यावादेशः ? उत्तरपदस्य चिदस्मै इत्य. नेन व्यवहितत्वादित्यत आह- छन्दसि दृष्टातुविधिरिति । भाष्यवाक्यमेतत् । वेदे दृष्टानुसरणमित्यर्थः । यथा दृष्टं तथा प्रक्रिया कल्पनीयेति भावः । पदकारा इति ॥ 'दिवस्पृथिव्योः' इत्यवग्रहे विसर्ग पठन्तीत्यर्थः । पदकारा इत्यनेन पदपाठख्याधुनिकत्वं सूचितम् । तथाच विसर्गपाठः प्रामादिक इति सूचितम् अकारोच्चारणेन रुत्वनिवृत्तेरुक्तत्वात् ।
उषासोषसः । उषा सामूर्यमिति । उषाश्च सूर्यश्चेति समाहारद्वन्द्वः । मातरपितरावुदीचाम् । उदीचां मते मातरपितराविति भवतीत्यर्थः । अत्र मातृशब्दस्यारङादेशो निपात्यते । मातापितराविति । अरङभात्रे 'आनङ्कृतः' इत्यानङ् | द्वन्द्वाच्चुदष । समासान्ताधिकारस्थं तद्धिताधिकारस्थं चेदं सूत्रम् । टच्स्यादिति । 'राजाहसखिभ्यः' इत्यतस्तदनुवृत्तेरिति भावः । वाक्चचमिति । वाक्च त्वक्च इति समाहारद्वन्द्वः । कुत्वस्यासिद्धत्वाच्च वर्गान्तत्वादृच् । एवं त्वक्त्रजमित्यत्रापि । त्वक्च स्रक्चेति विग्रहः । शमीदृषदमिति । शमी च दृबच्चेति विग्रहः । दकारान्तत्वादृच् । वाक्त्विष मिति । वाक्च त्विट् चेति विग्रहः । षान्तत्वादृच्, जश्त्वस्यासिद्धत्वादिति भावः । छत्रोपानहमिति । छत्रं च उपानच्चेति विग्रहः । हान्तत्वाट्टच् । प्रावृट्छरदाविति । प्रावृटू च शरच्चेति विग्रहः । इतरेतरयोगद्वन्द्वत्वान्न टजिति भावः ।
"
इति श्रीवासुदेवदीक्षित विदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां द्वन्द्वसमासप्रकरणं समाप्तम् ।
For Private and Personal Use Only
६१६
·