________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६२०
सिद्धान्तकौमुदी
अथैकशेषप्रकरणम् ॥ २१ ॥
अथैकशेषः वः । 'सरूपाणाम् -' ( सू १८८ ) रामौ रामा: । 'विरूपाणामपि समानार्थानाम् ' ( वा ७४७ ) । वक्रदण्ड कुटिलदण्डश्व बक्रदण्डी कुटिलदण्डौ । (३१) वृद्धो यूना तल्लक्षणश्चेदेव विशेषः १/२२६५ ॥ यूना सहोकौ गोत्रं शिष्यते, गोत्रयुवप्रत्ययमात्रकृतं चेत्तयोः कृत्स्नं वैरूप्यं स्यात् । गार्ग्यश्च गार्ग्ययणश्च गार्ग्यौं । वृद्धः किम् । गर्गगार्ग्यायणौ । यूना किम् । गर्गंगा
[ एकशेष
1
अथैकशेषो निरूप्यते - तदेवं द्वन्द्वे निरूपिते तदपवादमेकशेषप्रकरणमारभतेअथैकशेष इति । निरूप्यत इति शेषः । तत्रैकशेषसूत्राणि व्याचिख्यासुः पूर्व व्याख्यातमपि सूत्रं सन्दर्भशुद्धये आह- सरूपाणामिति । तदुदाहरणमपि स्मारयति - रामौ रामाः इति । विरूपाणामिति । 'सरूपाणाम्' इत्यनेन सूत्रेणार्थभेदेऽपि शब्देकरूप्ये एकशेषः उक्तः, एकार्थकत्वे विरूपाणामप्येकशेषो वक्तव्य इत्यर्थः । वक्रदण्डश्चेति । अत्र शब्दवैरूप्येऽप्यर्थेक्यात् अन्यतरः शिष्यत इति भावः । वृद्धो यूना । रूपतोऽर्थतश्च भेदेऽपि प्राप्त्यर्थमिदम् । यूनेति । 'जीवति तु वंश्ये युवा' इति वक्ष्यमाणयुवप्रत्ययान्तेनेत्यर्थः । सहोक्ताविति । अध्याहारलब्धमेतत् । गोत्रमिति । वृद्धशब्देन 'अपत्य पौत्रप्रभृति गोत्रम्' इति सूत्रोक्तं गोत्रं विवक्षितम् । अपत्यमन्तरितं वृद्धमिति पूर्वाचार्यपरिभाषितत्वादिति भावः । गोत्रप्रत्ययान्तमिति यावत् । न च 'गोत्रं यूना' इत्येव कुतो न सूत्रितमिति वाच्यम्, अपत्याधिकारादन्यत्र गोत्रग्रहणेन लौकिक गोत्र* विवाक्षतमिति सिद्धान्तज्ञापनार्थत्वात् । शिष्यत इति । शेष इति कर्मणि घञन्तमनुवर्तत इति भावः । तरलक्षण इति । सः गोत्रप्रत्ययः युवप्रत्ययश्च लक्षणं निमित्तं यस्येति विग्रहः । विशेषः वैलक्षण्यम् । तथाव गोत्रयुवप्रत्ययान्तयोर्विशेषः वैरूप्यम्, तल्लक्षइचेत् गोत्रयुवप्रत्ययनिमित्तकरचेदित्यर्थः । अन्यनिमित्तको न चेदित्यर्थः सिद्धः । तदाह - गोत्रयुवेति । कृत्स्नमिति । एवकारलभ्यमिदम् ।
1
1
-
1
1
गार्ग्यश्चेति । गर्गस्य गौत्रापत्यं गार्ग्यः । गर्गादिभ्यो यज् । गार्ग्यायण इति । गर्गस्य गोत्रापत्यं गार्ग्यः । तस्यापत्यं युवा गार्ग्यायणः । 'यञिञोश्व' इति फक् । गार्ग्यविति । अत्र गार्ग्यशब्दस्य गार्ग्यायणशब्दस्य च गोत्रयुवप्रत्ययकृतमेव वैरूप्यमिति गोत्रप्रत्ययान्तो गार्ग्यशब्दः शिष्यत इति भावः । गर्गगार्ग्यायणाविति । गर्गश्च गार्ग्ययणश्चेति विग्रहः । अत्र गर्गशब्दस्य गार्ग्यायणशब्दस्य च युवप्रत्ययमाश्रकृत वैरूप्येsपि गोत्रप्रत्ययान्तत्वाभावान्नैकशेष इति भावः । गर्गगार्ग्याविति । अत्र गर्गशब्दस्य गार्ग्यशब्दस्य च गोत्रप्रत्ययमात्रकृत वैरूप्येऽपि गोत्रप्रत्ययान्तो गार्ग्यशब्दः न शिष्यते,
For Private and Personal Use Only