SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् १० ] बालमनोरमासहिता। ५५४ तत्पुरुषौ पुस्येव । अनन्तरत्वात्परवलिङ्गतापवादोऽप्ययं परस्वासमाहारनपुंसकता बाधते । अहोरात्रः। रात्रेः पूर्वभागः पूर्वरात्रः। पूर्वाह्नः। द्वयहः। 'सङ्ख्यापूर्व रात्रं क्लीयम्' (लि १३१) । द्विरात्रम् , त्रिरात्रम , गणरात्रम् । (८१५) अपथं नपुं. सकम् २।४॥३०॥ तत्पुरुषः इत्येव । अन्यत्र तु अपयो देशः। कृतसमासान्तनिर्देशान्नेह । अपन्थाः । (८१६) अर्धर्चाः पुंसि च २४॥३१॥ अर्धर्चादयः शब्दाः पुंसि क्लीवे च स्युः । अधः-अर्धर्चम् । ध्वजः-ध्वजम् । एवं तीर्थशरी. विपरिणतं रात्रादिभिर्विशेष्यते. तदन्तविधिः । रात्राहाहान्तद्वन्द्वतत्पुरुषाः । पुंसी. त्यर्थः। फलितमाह-एतदन्ताविति । परवल्लिङ्गतापवादः । ननु अहोरात्र इति समा. हारद्वन्द्वे 'स नपंसकम्' इति नपुंसकत्वप्रसङ्गः । नव नपुंसकत्वस्याप्ययं पुंस्त्वविधिरपवाद इति वाच्यम् , 'पुरस्तादपवादाः अनन्तरान्विधीन् बाधन्ते नोत्तरान्' इति न्यायेन अस्य पुंस्त्वविधेः परवल्लिङ्गतामात्रापवादत्वात् । तस्मादहोरात्राविति इत. रेतरद्वन्द्व एवेहोदाहर्तुमुचित इत्यत आह-अनन्तरत्वादिति । अयमिति । पुंस्त्वावधि. रिति शेषः । अहोरात्र इति । अहश्च रात्रिश्च तयोस्समाहार इति द्वन्द्वे परत्वानपुंसकत्वम् , अपवादत्वात् परवल्लिङ्गमपि बाधित्वा अनेन पुंस्त्वम् । 'अहस्सर्वकदेश' इत्यच् । पूर्वाह्न इति । अह्न पूर्वमित्येकदेशिसमासः। 'राजाहस्सखिभ्यः' इति टच । 'अहोऽह्नः' इत्यहादेशः । परवल्लिङ्ग नपुंसकं च बाधित्वा पुंस्त्वम् । द्वयह इति । द्वयोरहोस्समाहार इति विग्रहे द्विगुः, टच , न सङ्ख्यादेस्समाहारे' इत्यह्लादेशनिषेधः। परवल्लिङ्ग बाधित्वा पुंस्त्वम् । उत्तरपदस्याहन्शब्दस्य अकारान्तत्वाभा. वान स्त्रीत्वम् , समासान्तस्य समासमक्तत्वात्। सङ्ख्यापूर्वम् । लिङ्गानुशासनसूत्रमिदम् । न त्वष्टाध्यायीस्थं सूत्रम् , नापि वार्तिकम् , भाष्ये अदर्शनात् । 'रात्रा. हाहाः पुंसि' इत्यस्यायमपवादः । द्विरात्रमिति । समाहारद्विगुः । 'अहस्स.कदेश' इत्यच् । गणरात्रमिति । गणशब्दो बहुपर्यायः, 'बहुगणवतु' इति सङ्ख्यात्वम् । गणानां रात्रीणां समाहार इति द्विगुः, अच् । अपथं नपुंसकम् । न पन्थाः इति विग्रहे नन्समासो नसो नस्य लोपे 'अक्पू: इत्यप्रत्यये टिलोपे अपथशब्दः, स नपुंसकमित्यर्थः । परवल्लिङ्गतापवादः । तत्पुरुष इत्येवति । 'परवल्लिङ्गम्' इत्यतस्तदनुवृत्तेरिति भावः । द्वन्द्वमहणं तु नानुवर्तते, अयोग्यत्वात् । अन्यत्र त्विति । बहुव्रीहावित्यर्थः । अपन्थाः इति । 'पथो विभाषा' इति समासान्तविकल्पः । 'पथः सङ्ख्याव्ययादेः' इति वक्ष्यमाणबार्तिकेन गतार्थमेवेदं सूत्रम् । अर्धर्चाः। बहुवचनात्तदादीनां ग्रहणमित्याह-अर्धर्चादय इति। अर्ध चमिति । अचोर्धमिति विग्रहे 'अर्ध नपुंसकम्' इति समासः । 'ऋ' इति अच् । परव. For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy