________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३६२
सिद्धान्तकौमुदी
[ स्त्रीप्रत्यय
सुस्वेदा, द्रवस्वात् । सुज्ञाना, अमूर्तस्वात् । सुमुखा शाला, अप्राणिस्थत्वात् । सुशोफा, विकारजश्वात् । अतरस्थं तत्र दृष्टं च-सुकेशी- सुकेशा वा रथ्या । अत्रास्थिस्यापि प्राणिनि दृष्टत्वात् । तेन चेत्तत्तथायुतम् । सुस्तनी - सुस्तना वा प्रतिमा । प्राणिवत्प्राणिसदृशे स्थितत्वात् । ( ५२१ ) नासिकोदरौष्ठजङ्घादन्तमाह -- सुस्वेदेति । सुशोभनः स्वेदः धर्मजः उदकप्रस्रवः यस्या इति विग्रहः । स्वेदस्य शोभनत्वं तु दुर्गन्धाभावः । द्रवत्वादिति । न स्वाङ्गत्वमिति शेषः । अतो न ङीषित्यर्थः । मूर्तिमदित्यस्य प्रयोजनमाह - सुज्ञानैति । सु शोभनं ज्ञानं यस्या इति विग्रहः । अमूर्तत्वादिति । न स्वाङ्गत्वमिति शेषः । प्राणिस्थमित्यस्य प्रयोजनमाह - सुमुखा शालेति । सु शोभनं मुखं प्रथमभागः यस्या इति विग्रहः । श्रप्राणिस्थत्वादिति । न स्वा. ङ्गत्वमिति शेषः । अविकारजमित्यस्य प्रयोजनमाह -- सुशोफेति । सु अधिकः शोफः श्वयथुः यस्या इति विग्रहः । ' शोफस्तु श्वयथुः' इत्यमरः । विकारजत्वादिति । रोगजत्वादित्यर्थः । न स्वाङ्गत्वमिति शेषः ।
अतत्स्थं तत्र दृष्टं चेति । द्वितीयं स्वाङ्गलक्षणम् । तच्छब्देन प्राणी परामृश्यते । अतत्स्थम् अप्राणिस्थं तत्र प्राणिनि दृष्टं यत् तदपि स्वाङ्गमित्यर्थः । रथ्येति । रथ्यास्थानां केशानां प्राणिस्थत्वाभावात् पूर्वलक्षणेन स्वाङ्गत्वाऽसिद्धेर्लक्षणान्तरमिति भावः । उक्तलक्षणमुदाहरणे योजयति - श्रप्राणिस्थस्यापीति । इदानीं प्राणिस्थत्वाभाasपि कदाचित् प्राणिस्थत्वादपि स्वाङ्गत्वमित्यर्थः ।
तेन चेत्तत्तथायुतमिति । तृतीयं स्वाङ्गलक्षणम् । अत्र भाष्ये 'स्वाङ्गमप्राणिनोऽपि इति शेषः पूरितः । चेदिति यद्यर्थे । तेन प्राणिस्थेन स्तनाद्यङ्गाकृतिकावयव विशेषेण तत् अप्राणिद्रव्यं प्रतिमादि तथा प्राणिद्रव्यवत् युतं सम्बद्धं यदि, तदा तत् स्तनाधाकृतिकं अप्राणिनोऽपि स्वाङ्गमित्यर्थः । सुस्तनी सुस्तना वा प्रतिमेति । शोभनौ स्तनौ स्तनाकृती अवयवौ यस्या इति विग्रहः । प्रतिमागतयोः स्तनाकृतिकावयवयोः कदाचिदपि प्राणिस्थत्वाभावात् प्राण्यन्तरे अदृष्टत्वाच्च पूर्वलक्षणद्वयस्याप्यप्रवृत्तेर्लक्षणान्तरमिदम् । अथोदाहरणे लक्षणं योजयति - प्राणिवदिति । सप्तम्यन्ताद्वतिः । प्राणिवत् प्राणिसदृशे प्रतिमादिद्रव्ये स्थितत्वात् स्वाङ्गमित्यर्थः । नच कल्याणपाणिपादेति बहुव्रीहावपि डिप् स्यादिति वाच्यम् ।' अस्वाङ्गपूर्वपदाद्वा' इत्यनुवृत्तेः । अत्र हि पाणिपादेति समुदायो न स्वाङ्गम्, किन्तु स्वाङ्गसमुदाय एव । यतु स्वाङ्गं पादेति न तु तत् अस्वाङ्गात् पूर्वपदात् परम् पाणिपदेन व्यवधानात् । तथा च स्वाङ्गस्य पादस्य अस्वाङ्गात् पूर्वपदात् कल्याणशब्दात परत्वाभावात्र कीषिति भाष्ये स्पष्टम् ।.
"
नासिकौदरोष्ठजङ्घादन्तकर्णशृङ्गाच्च । 'अस्वाङ्गपूर्वपदाद्वा' इत्यतो वेति 'अन्यतो
For Private and Personal Use Only