SearchBrowseAboutContactDonate
Page Preview
Page 808
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् ३०] बालमनोरमासहिता । DEE षद्यः । (१५४५) सेनाया वा ॥४४॥ यः स्यात् । पक्षे ठक् । सैन्या:सैनिकाः । (१५४६) सज्ञायां ललाटकुक्कुटयो पश्यति ४४४६॥ ललाटं पश्यति लालाटिकः सेवकः । कुक्कुटोशब्देन तत्पाताईः स्वल्पदेशो लक्ष्यते। कोक्कटिको भिक्षुः । ( २५४७) तस्य धम्यम् ४।४।४७॥ आपणस्य धर्म्यमापणिकम् । (१५४८) मण महिन्यादिभ्यः ४४४८॥ महिण्या धय माहिषम् । याजमानम् । (१५88) ऋताऽ४४॥ या धय यात्रम् । 'नराच्चेति वक्तव्यम्' (वा २९६७ )। नरस्य धा नारी । 'विशसितुरिलो. पश्चाच्च वक्तव्यः' (वा २९६८)। विशसितुर्धय॑ वैशस्त्रम् । 'विभाजयितुर्णिकोपचाच वाच्यः' (वा २९६९)। विभाजयितुर्धर्म्य, वैभाजित्रम् । (१६००) अवक्रयः ४।४।५०॥ षष्ठयन्ताठपस्यादवक्रयेऽर्थे । आपणस्यावक्रयः भापणिकः। राजप्रायं द्रव्यमवक्रयः । (१६०१) तदस्य पण्यम् ४॥४॥५१॥ अपूपाः पण्यमस्य आपूपिकः । (१६०२) लवणाटुन ४॥४॥५२॥ लावणिकः । (१६०३) किसरादिभ्यः ष्ठन् ४।४।५३॥ किसरं पण्यमस्य किसरिकः । विस्वान्सी । किसरिको । किसर, उशीर नलद इत्यादिकिसरादयः सर्वे सुगन्धिद्रग्यविशेषवा. वैति मेलयतीत्यर्थः। परिषदो ण्यः। द्वितीयान्तात्परिषच्छब्दात्समवैतीत्यर्थे उगप. वादो ण्य इत्यर्थः । सेनाया वा । ण्यः स्यादिति । शेषपूरणमिदम् । द्वितीयान्तात्सेनाशब्दात् समवैतीत्यर्थे ण्यो वा स्यादित्यर्थः । सैन्याः सैनिका इति । सेनां मेलयन्तीत्य. र्थः । संशायाम् । ललाटकुक्कुटीशब्दाभ्यां द्वितीयान्ताभ्यां पश्यतीत्यर्थे ठक् स्यात्संज्ञायामित्यर्थः। संज्ञा रूढिः, न त्वाधुनिकः सङ्केतः। लालाटिकः सेवक इति। दूरे स्थित्वा प्रमोर्ललाट पश्यति, नतु कायें प्रवर्तत इत्यर्थः । 'लालाटिकः प्रभोर्भालदर्शी कार्याक्ष. मश्च यः' इत्यमरः । कोक्कुटिक इति । कुक्कुटीपतनाह देशं पश्यतीत्यर्थः। . तस्य धर्म्यम् । धर्मादनपेतं धर्म्यम् , आचरितुं योग्यमित्यर्थः । धयमित्य) षष्ठयन्तागित्यर्थः। अण् महिष्यादिभ्यः। षष्ठयन्तेभ्यो धर्म्यमित्यर्थे इति शेषः । अतोऽन् । ऋदन्तात्षष्ठयन्तात् धर्म्यमित्यर्थे अमित्यर्थः । नारीति । अअन्तत्वात् ही. विति भावः । इडलोप इति । इटो लोप इत्यर्थः । वैशस्त्रमिति। विशसितृशब्दादमि इटो लोपे ऋकारस्य यणि आदिवृद्धिः। वैभाजित्रमिति । विभाजयितृशब्दादनि णि. लोपः । भवक्रयः । तस्येत्यनुवर्तते । तदाह-षष्ठयन्तादिति । तदस्य पण्यम् । अस्मिन) प्रथमान्तात् ठगित्यर्थः। विक्रेतव्यं द्रव्यं पण्यम् । लवणाञ्। तदल्य पण्यमित्येव । लावणिक इति । लवणमस्य पण्यमित्यर्थः। किसरादिभ्यः ष्ठन्। तदस्य पण्यमित्येव । For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy