________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १९]
बालमनोरमासहिता।
कर्मव्यतिहारे द्योत्ये स बहुव्रीहिः । इतिशब्दादयं विषयविशेषो लभ्यते। 'अन्ये. षामपि दृश्यते' (सू ३५३९) दीर्घ इत्यनुवर्तते । इचि कर्मव्यतिहारे बहुव्रोही पूर्वपदान्तस्य दीर्घः । इसमासान्तो वक्ष्यते । तिष्ठद्गुप्रभृतिष्विच्प्रत्ययस्य पाठा. दव्ययीभावत्वमव्ययत्वं च । केशेषु केशेषु गृहीत्वेदं सुद्धं प्रवृत्तं केशाकेशि । दण्डैश्च दण्डैश्च प्रहृत्येदं युद्धं प्रवृत्तं दण्डादण्डि । मुष्टीमुष्टि। (८४७) मोगुणः ६४।
प्रहरणविषये इत्यध्याहारे किं प्रमाणमित्यत आह-इतिशब्दादिति । इतिशब्दो लौकिकप्रसिद्धप्रकारवचनः । केशाकेशीत्यादिलौकिकप्रयोगे यावानर्थः प्रसिद्धस्तावत्यर्थेऽर्य बहुव्रीहिर्भवतीत्यर्थः।
अन्येषामपि दृश्यते । अनुवर्तते इति । 'ठूलोपे' इत्यत इति शेषः । 'नहिवृतिवृषि' इत्यादिपूर्वसूत्रोक्तादन्येषामपि दी| दृश्यत इत्यर्थः । अतिप्रसङ्गमाशङ्कयाह-कर्मव्यतिहारे बहुव्रीहौ पूर्वपदान्तस्य दीर्घ इति । बहुव्रोहा चेत् कर्मव्यतिहारे एवं पूर्वपदान्तस्यैव दीर्घ इत्यर्थः । तेन तुराषाडित्यादौ दीर्घा निर्बाधः। दृशिग्रहणादयमों लभ्य. ते। वक्ष्यत इति । 'इच्कर्मव्यतिहारे' इति सूत्रेणेति शेषः । तिष्ठद्गुप्रभृतिष्विति । वृत्ति. ग्रन्थ एवात्र प्रमाणम् । अव्ययीभावत्वमिति । तत्र अव्ययीभावः इत्यनुवृत्तेरिति भावः । अव्ययत्वमिति । 'अव्ययीभावश्च' इत्यनेनेति शेषः । 'अव्ययादाप्सुपः' इति सुब्लुकू तत्फलमिति भावः। गृहीत्वेति । परस्परमिति शेषः । न च केशग्रहणस्य पुरुषकर्तृकत्वात् प्रवृत्तेश्च युद्धकर्तृकत्वात् समानकर्तृकत्त्वाभावात् कमिह क्त्वाप्रत्यय इति वा. च्यम् , गृहीत्वेत्यनन्तरं स्थितयोरित्यध्याहारात् । ततश्च अस्य केशेषु सः, तस्य केशेष्वयमित्येवं परस्परं गृहीत्वा स्थितयोरिदं युद्धं प्रवृत्तमिति विग्रहवाक्यं फलि. तम् । केशाकेशीति । केशेषु केशेष्वित्यनयोहणाधन्तर्भावेन वृत्तिघटकयोः समासे सति सुब्लुक् पूर्वपदस्य दीर्घः, इच्समासान्तः । 'यस्येति च' इत्यकारलोपः। अव्ययत्वासुब्लुगिति भावः । अन्यपदार्थवृत्तित्वेऽपि एकशेषापवादोऽयं बहुव्रीहिसमासः अप्र. थमान्तार्थश्च ।
दण्डैश्चेति । अस्य दण्डैः सः, तस्य दण्डैरयमित्येवं परस्परं प्रहृत्य स्थितयोरिदं युद्धं प्रवृत्तमिति विग्रहार्थः । दण्डादण्डीति । दण्डैर्दण्डैरित्यनयोः प्रहरणाधन्तर्भावेन स. मासघटकयोः समासे सति सुब्लुक्, पूर्वपदस्य दीर्घः, इच् , 'यस्येति च' इति अकार. लोपः । अव्ययत्वात् सुब्लुक । मुष्टीमुष्टिति । अस्य मुष्टिभिः सः, तस्य मुष्टिभिश्चायमिः त्येवं परस्परं प्रहृत्य स्थितयोरिदं युद्धं प्रवृत्तमिति विग्रहः। मुष्टया मुष्टया इत्यनयोः समासे सति सुब्लुगादि पूर्ववत् । मुष्टामुष्टीति पूर्वपदान्तस्य आत्वमपाणिनीयमेव । ओर्गुणः । मोः इत्युकारात् षष्ठयेकवचनम् । तेन भस्येत्यधिकृतं विशेष्यते । तदन्तवि.
For Private and Personal Use Only