________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६२६
सिद्धान्तकौमुदी
[सर्वसमासशेष
अथ सर्वसमासशेषप्रकरणम् ॥ २२ ॥ कृत्तद्धितसमासैकशेषसनाद्यन्तधातुरूपाः पञ्च वृत्तयः। परार्याभिधानं वृत्तिः । वृत्त्यर्थावबोधकं वाक्यं विग्रहः । स द्विविधः । लौकिकोऽलौकिकश्च । परिनिष्ठितवा. त्साधुलौकिकः । प्रयोगानोऽसाधुरलौकिकः । यथा राज्ञः पुरुषः, राजन् अस् पुरुष सु इति । अविग्रहो नित्यसमासः, अस्वपदविग्रहो वा। समासश्चतुर्विध इति तु प्रायोवादः । अव्ययीभावतत्पुरुषबहुव्रीहिद्वन्द्वाधिकारबहिर्भूतानामपि 'सह सुपा'
अथ प्रसङ्गात् सर्वसमासोपयुक्तं प्रकीर्णकं प्रकरणमारभते-कृत्तद्धितेति । कृदन्ताः तद्धितघटिताः समासा एकशेषाः सनादिप्रत्ययान्तधातवश्चेति वृत्तयः पञ्चविधा इत्यर्थः । वृत्तिसामान्यलक्षणमाह-परार्थाभिधानं वृत्तिरिति । 'समर्थः पदविधिः' इति सूत्रे भाष्ये स्थितमेतत् । अभिधानमिति करणे ल्युट् । सामान्ये नपुंसकम् । विग्रह. वाक्यावयवपदार्थेभ्यः परः अन्यः योऽयं विशिष्टैकार्थः तत्प्रतिपादिका वृत्तिरित्यर्थः । प्रक्रियादशायां प्रत्येकमर्थवत्त्वेन प्रथमविगृहीतानां पदानां समुदायशक्त्या विशिष्टै. कार्थप्रतिपादिका वृत्तिरिति यावत् । समुदायशक्तिश्च 'समर्थः पदविधिः' इति परिभाषया लभ्या । तत्र समासतद्धितयोः पदविधित्वं स्पष्टमेव, 'सुप्सुपा' इत्यनुवयं समासविधानात् , सुबन्तात्तद्धितोत्पत्तेः वक्ष्यमाणत्वात् । कृतामपि केषाञ्चित् 'कर्मण्यण' इति उपपदनिमित्तकानां पदविधित्वमस्त्येव । 'सुप आत्मनः क्यच्' इत्यादीनामपि पदविधित्वमस्त्येव । एकशेषविधावपि द्वन्द्व इत्यनुवृत्तेः द्वन्द्वविषये तद्विधा. नात् एकार्थीभावोऽस्त्येव इति मञ्जूषादौ विस्तरः। वृत्त्यर्थावबोधकमिति। यद्यपि वृत्तावेव समुदायशक्त्या विशिष्टैकार्थप्रतिपादकता, नतु वाक्ये इति समर्थसूत्रे भाष्ये प्रपञ्चितम् । तथापि समासवृत्तियोग्यविभक्त्यन्तपदानां पृथक्प्रयुज्यमानानां समूहो विग्रहवाक्यमिति बोध्यम् ।
परिनिष्ठितत्त्वादिति । व्याकरणसंस्कृतत्वादित्यर्थः । प्रयोगानह इति । व्याकरणसंस्कृ. तत्वाभावादित्यर्थः । यथेत्युदाहरणप्रदर्शने । राज्ञः पुरुष इति । लौकिकविग्रहवाक्यमिति शेषः । राजन् + अस् पुरुष सु इति । अलौकिकविग्रहवाक्यमिति शेषः । अविग्रहो नित्यसमास इति । लौकिकविग्रहवाक्यरहित इत्यर्थः, समासस्य नित्यत्वा. दिति भावः । अस्वपदेति । समस्यमानपदसमानार्थकपदान्तरकृतविग्रहो वा नित्य. समास इत्यर्थः। सज्ञाविषयसमासे तु वाक्येन सज्ञानवगमेऽपि वृत्तिघटकपदः ज्ञापनाय समस्यमानपदार्थबोधकवाक्यप्रयोगो भवत्येव । तत्र समासनित्यत्ववादस्तु वाक्यस्य वृत्तिसमानार्थकत्वाभावात् गौण इत्याहुः । चतुर्विध इति । अव्ययीभावः, तत्पुरुषः, बहुव्रीहिः, द्वन्द्वश्चेति चतुर्विध इत्यर्थः । प्रायोवाद इति । प्रायस् इत्यव्यय बाहुल्ये । बाहुल्याभिप्रायकश्च तस्य चातुविध्यप्रवाद इत्यर्थः। कुत इत्यत आह
For Private and Personal Use Only