________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २२ ]
बालमनोरमासहिता ।
( सू ६४९) इति समासविधानात् । पूर्वपदार्थप्रधानोऽव्ययीभावः, उत्तरपदार्थप्रधा नस्तत्पुरुषः, अन्य पदार्थ प्रधानो बहुव्रीहिः, उभयपदार्थप्रधानो द्वन्द्वः, इत्यपि प्राची वादः प्रायोऽभिप्रायः । सूपप्रति उन्मत्तगङ्गम् इत्याद्यव्ययीभावे, अतिमालादौ तत्पुरुषे द्वित्राः इत्यादिबहुव्रीहौ, दन्तोष्ठम् इत्यादिद्वन्द्वे चाभावात् । तत्पुरुषविशेषः कर्मधारयः । तद्विशेषो द्विगु: । अनेकपदत्वं द्वन्द्वबहुव्रीह्योरेव । तत्पुरुषस्य क्वचिदेवेत्युक्तम् । किं च -
६२७
सुप सुपा तिचा नाम्ना धातुनाऽथ तिङां तिङा । सुबन्तेनेति विज्ञेयः समासः षड्विधो बुधैः ॥
सुप सुपा, राजपुरुषः । तिङा, पर्यभूषयत् । नाम्ना, कुम्भकारः । धातुना,
I
श्रब्ययीभावेति । बहिर्भूतानामपीति । समासानामिति शेषः । प्रायोऽभिप्राय इति । बाहुल्यतात्पर्य इत्यर्थः । सूपप्रतीति । इह द्वन्द्वे चेत्यनन्तरं श्रुतमभावादिति पदम् अव्ययी • भावे इत्यनन्तरं तत्पुरुषे इत्यनन्तरं बहुव्रीहावित्यनन्तरं चान्वेति । सूपप्रतीत्यव्ययीभावे उत्तरपदार्थप्रधानतया, उन्मत्तगङ्गं देशः, लोहितगङ्ग देशः, इत्यव्ययीभावे. ऽन्यपदार्थप्रधानतया पूर्वपदार्थप्रधान्याभावादित्यर्थः । अतिमालादौ तत्पुरुषे पूर्वपदार्थप्रधानतया उत्तरपदार्थप्रधान्याभावादित्यर्थः । द्वित्रा इति बहुव्रीहौ उभयपदार्थप्रधानतयाऽन्यपदार्थ प्राधान्याभावादित्यर्थः । दन्तोष्ठमित्यादिद्वन्द्वे समाहारस्यैव प्रधानतया उभयपदार्थ प्राधान्याभावादित्यर्थः । तत्पुरुषविशेषः कर्मधारय इति । 'तत्पु रुषः समानाधिकरणः कर्मधारयः' इत्युक्तेरिति भावः । तद्विशेषो द्विगुरिति । कर्मधारयविशेष इत्यर्थः । 'सङ्ख्यापूर्वी द्विगुः' इत्यादिरिति भावः । अनेकपदत्वमिति । द्वित्रिचतुरादिपदकत्वमित्यर्थः । ' अनेकमभ्यपदार्थे' इति बहुव्रीहिगतस्यानेकग्रहणस्य द्वन्द्ववि धावप्यनुवृत्तेरिति भावः । क्वचिदेवेति । द्वयहजात इत्यादावित्यर्थः । इत्युक्तमिति । भाष्यादाविति शेषः ।
किन्चेति । अव्ययमिदं विशेषान्तरप्रदर्शने । सुपां सुपेति । सुबन्तानां सुबन्तेन तिङ. न्तेन प्रातिपदिकेन धातुना च समासः । अथेति पूर्ववाक्यव्यवच्छेदे । तिङामिति । तिङन्तानां तिङन्तेन सुबन्तेन च समास इत्येवं षडूविधः समासो ज्ञेय इत्यर्थः । सुपेति । सुपेत्यस्योदाहरणं वक्ष्यत इत्यर्थः । राजपुरुष इति । राज्ञ इत्यस्य षष्ठयन्तस्य पुरुष इति सुबन्तेन समासः । तिङेति । सुपां तिडेत्यस्योदाहरणं वक्ष्यत इत्यर्थः । पर्यभूषयदिति । 'सह सुपा' इत्यत्र सहेति योगविभागात् परीति सुबन्तस्य तिङन्तेन समासः । नाम्नेति । सुषां प्रातिपदिकेन समासे उदाहरणं वक्ष्यत इत्यर्थः । कुम्भकार इति । 'उपपदमति' इति कुम्भस्येति षष्ठ्यन्तस्य कारेति प्रातिपदिकेन समासः
For Private and Personal Use Only