________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११ ]
बालमनोरमासहिता ।
भ्याम् राजभिः । राज्ञे राजभ्यः । राज्ञः राज्ञोः राज्ञाम् । राज्ञि - राजनि । प्रतिदी
ननु दण्डिष्वित्यत्र नलोपे कृते इणः परत्वात् सस्य षत्वमिति स्थितिः । तत्र षत्वविधेः सुबाश्रयविधित्वात् तत्र कर्तव्ये नलोपस्यासिद्धत्वात् कथं षत्वमिति चेत्, मैवम् - न हि षत्वविधिः सुब्विधिः । सुप्त्वं तद्व्याप्यधर्मे वा पुरस्कृत्य प्रवर्तमानो विधिर्हि सुब्विधिरिह विवक्षितः । न च षत्वविधिस्तथा । अतस्तत्र नलोपस्य सिद्धत्वमस्त्येवेति षत्वं निर्बाधम् । अस्तु वा षत्वविधिरपि सुब्विधिः । तथापि तस्मिन् कर्तव्ये नलोपस्यासिद्धत्वं न भवत्येव । तदसिद्धत्वं हि किं 'पूर्वत्रासिद्धम्' इत्यनेनापाचते, उत 'नलोपः सुप्स्वर' इत्यनेनैव । न तावदाद्यः, नलोपविधेः षत्वविध्यपेक्षया पूर्वत्वेन तस्य पत्वे कर्तव्ये असिद्धत्वासम्भवात् । न द्वितीयः, 'नलोपः सुप्स्वर' इत्य. न हि राजभ्यामित्यादौ नलोपस्यासिद्धत्वमपूर्व न विधीयते । किन्तु 'पूर्वत्रासिद्धम्' इत्यनेन प्राप्तमेव नियमार्थं पुनर्विधीयते राजाश्व इत्यादौ सुप्स्वरसज्ञातुग्विधिभिसवर्णदीर्घादिविधिसिद्धये दण्डिष्वित्यत्र तु नलोपस्यासिद्धत्वं 'पूर्वत्रासिद्धम्' इत्यनेन प्राप्तं न भवतीति तस्य 'नलोपः सुप्स्वरः' इति सूत्रविषयत्वं न सम्भवति । अन्यया सुविधावित्यनेन दण्डिष्वित्यादौ पत्वे कर्तव्ये नलोपासिद्धत्वमपूर्व विधीमेव । राजभ्यामित्यादौ तु दीर्घादौ कर्तव्ये सिद्धमेव नियमार्थं विधीयत इति विधिवैरूप्यमापद्येत । तस्माद्दण्डिष्वित्यादौ पत्वे कर्तव्ये नलोपस्यासिद्धत्वाभावात् नलोपस्य सस्थादिणः परत्वानपायात् षत्वं निर्वाधमिति शब्देन्दुशेखरे प्रपञ्चितम् ।
.: प्रकृतमनुसरामः । स्वरविधौ यथा - पञ्चाम् । अत्र नलोपस्यासिद्धत्वादकारान्तत्वाभावात् 'अमें चावर्ण इयत्र्यच् इति पूर्वपदायुदात्तत्वं न भवति । सज्ञाविधौ यथा - दण्डदत्तौ दत्तदण्डिनौ । अत्र 'द्वन्द्वे घि' इति पूर्वनिपातनियमो न भवति, घिसन्ज्ञाविधौ नलोपस्यासिद्धत्वेन इदन्तत्वविरहात् । कृतितुग्विधौ यथावृत्रहभ्याम् वृत्रहभिः । अत्र 'ब्रह्मभ्रूणवृत्रेषु किप्' इति विहितं क्विपमाश्रित्य 'इस्वस्य पिति कृति तुक्' इति न तुक्, नलोपस्यासिद्धत्वेन हस्वस्य नकारव्यवहितत्वात् । कृतीति विशेषणात् 'छे च' इति तुग्विधौ नलोपस्य नासिद्धत्वम् । ततश्च वृत्रहच्छश्रम् । इह स्यादेव 'छे च' इति तुक् । भाष्ये तु वृत्रहभ्यामित्यादौ नलोपस्य सत्त्वेsपि सन्निपातपरिभाषया 'हस्वस्य पिति' इति तुक् न भविष्यतीति तुग्विधिग्रहणं प्रत्याख्यातम् | 'स्वादिषु' इति पदत्वद्वारा भ्यांसन्निपातनिमित्तको नलोपस्तद्विघातक न प्रवर्तयतीत्याशयः । ननु वृत्रहधनमित्यत्र तुग्व्यावृत्त्यर्थं तुग्विधिग्रहणमावश्यकम्, तत्रान्तर्वर्तिनों विभक्तिमाश्रित्य प्रवृत्तं पदत्वमादाय प्रवृत्तस्य नलोपस्य सन्निपा-निमित्तकत्वाभावादिति चेत्, न तुग्विधिग्रहणप्रत्याख्यानपरभाष्यप्रामाण्येन ताहअसन्निपातानिमित्तकन लोपविषयाणां वृत्रहधनमित्यादीनां अनभिधानकल्पनादित्यातां तावत् । राशि राजनीति । 'विभाषा विश्यो:' इत्यल्लोपविकल्प इति भावः ।
I
For Private and Personal Use Only
પૂ