________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६१६
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ तद्धिते स्वार्थिक
सकृच्च ५|४|१६|| 'सकृदित्यादेशः स्यात्, चात्सुच् । सकृद्भुङ्क्ते । 'संयोगान्तस्य'( सू ५४ ) इति सुचो लोपः । न तु 'हरुङथाप्-' ( २५२ ) इति । अभैत्सीदित्यत्र सिच इव सुचोऽपि तदयोगात् । (२०६८) विभाषा बहोर्धा विप्रकृष्टकाले ५|४|२०|| अविप्रकृष्ट आसन्नः । बहुधा बहुकृत्वो वा दिवसस्य भुङ्क्ते । आसन्न काले किम् । बहुकृत्वो मासस्य भुङ्क्ते । (२०६६) तत्प्रकृतवचने मयट् ५|४|२१|| प्राचुर्येण प्रस्तुतं प्रकृतं, तस्य वचनं प्रतिपादनम् । भावेऽधिकरणे वा ल्युट् । आये प्रकृतमन्नममन्नयम् । अपूपमयः । यवागूमयी । द्वितीयेऽन्नमयो यज्ञः । अपूपमयं मित्यर्थः । अत्र भुङ्क्ते इत्यनुषज्यते । एकस्य सकृच्च । शेषपूरणेन सूत्रं व्याचष्टेसकृदित्यादेशः स्यादिति । सकृदभुङ्क्ते इति । एकशब्दात् सुच्, प्रकृतेः सकृदित्यादेशश्च । अन एकशब्दः क्रियाविशेषणम् । एकत्वविशिष्टा भुजिक्रियेत्यर्थः । स्वादु पचति इत्यादिवदेकं भुङ्क्ते इति प्रयोगे प्राप्ते इदं सूत्रमिति कैयटः । एको भुङ्क्ते इत्यत्र तु नायं विधिः प्रवर्तते, क्रियाग्रहणमनुवर्त्य क्रियाविशेषणस्यैव एकशब्दस्य ग्रहणादित्यास्तां तावत् । ननु 'संयोगान्तस्य' इति सुचो लोप इत्यनुपपन्नम् । 'हल्ड्या भ्यः' इत्येव हि सुलोपोऽत्र युक्तः । तस्मिन् कर्तव्ये संयोगान्तलोपस्य त्रैपादिकस्यासिद्धत्वादित्यत आह- नतु हल्ङयाबितीति । सिच इवेति । अभैत्सीदित्यत्र सिचो लोप निवृत्तये हल्डाबित्यत्र सिग्रहणेन सिचो न ग्रहणं, तत्साहचर्यात् सुग्रहणेनापि सुजयं न गृह्यत इति भावः ।
विभाषा बहोर्धाऽविप्रकृष्टकाले । अविप्रकृष्टकालिकक्रियाजन्मगणनवृत्ते हुशब्दात् धाप्रत्ययो वा स्यात् । पक्षे कृत्वसुच् । बहुधा बहुकृत्वो वा दिवसस्य भुङ्क्ते इति । दिवसे प्रातःसङ्गवाद्यव्यवहित कालिकोत्पत्तिविशिष्टा भोजनक्रियेत्यर्थः । 'कृत्वोऽर्थ प्रयोगे arosधिकरणे' इति दिवसात्पष्ठीति हरदत्तः । शेषत्वविवक्षायां षष्टी इति तु नवीनाः । तत्प्रकृतवचने । तदिति प्रथमान्तनिर्देशः । प्राचुर्येणेति । बहुलतया उपस्थित प्रकृतशब्देन विवक्षितमित्यर्थः, उपसर्गबलादिति भावः । प्रतिपादनमिति । बोधनमित्यर्थः । भावे इति । तथाच प्रकृतस्य बोधने सतीत्यर्थः । प्राचुर्यविशेषणकचस्तुवृत्तेः प्र थमान्तात्स्वार्थे मयडिति फलति अत्र प्राचुर्यविशिष्टं वस्तु प्रकृतेरर्थः । प्रत्ययस्तु
योतकः । श्रधिकरणे वेति । तथाच प्राचुर्यविशेषणकं यद्वस्तु यस्मिन्नुच्यते तदधिकरणे वाच्ये तादृशवस्तुवृत्तेः शब्दात् मयडिति फलितम् । अत्र पक्षे प्राचुर्यविशिष्टमुच्यमानं वस्तु प्रकृत्यर्थः । तदधिकरणं प्रत्ययार्थः । तन्त्रेणार्थद्वये सूत्रतात्पर्यम्, व्याख्यानात् । यद्यप्याद्यपक्षे स्वार्थिकप्रकरणपाठः समञ्जसः, नतु द्वितीयपक्षे । तथापि 'अथ स्वार्थिकाः' इति मूलं प्रायिकाभिप्रायमिति न दोषः । श्रये इति । भावल्युटपक्षे इत्यर्थः । प्रकृतमन्नमन्नमयमिति । प्रचुरमन्नमित्यर्थः । स्वार्थिकत्वात्प्रकृतिलिङ्गता ।
For Private and Personal Use Only
―――