SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् १६ ] बालमनोरमासहिता | 1 अर्चायाम् किम् । निपुणो राज्ञो मृत्यः । इह तत्त्वकथने तात्पर्यम् । 'अप्रत्यादिभि• रिति वक्तव्यम्' ( वा १४९३ ) । साधुर्निपुणो वा मातरं प्रति परि अनु वा । (६४१) प्रसितोत्सुकाभ्यां तृतीया च २|३|४४|| आभ्यां योगे तृतीया स्यात् चात्सप्तमी । प्रसित उत्सुको वा हरिणा - हरौ वा । (६४२) नक्षत्रे च लुपि २|३|४५ || नक्षत्रे प्रकृत्यर्थे यो लुप्संज्ञया लुप्यमानस्य प्रत्ययस्यार्थस्तत्र वर्तमानातृतीया सप्तम्यौ स्तोऽधिकरणे । 'मूलेनावाहयेद्देवीं श्रवणेन विसर्जयेत् । मूले श्रवणे इति वा । लुपि किम् । पुष्यै शनिः । ( ६४३ ) सप्तमीपञ्चम्यौ कारकमध्ये २।३।७ ॥ शक्तिद्वयमध्ये यौ कालाध्वानो ताभ्यामेते स्तः । अद्य भुक्त्वायं व्यहे - याद्वा भोक्ता । कर्तृशक्स्योर्मध्येऽयं कालः । इहस्थोऽयं क्रोशे - कोशाद्वा लक्ष्यं BSN हितकारीत्यर्थः । निपुणो वेति । मातरि कुशल इत्यर्थः । शुश्रूषायामिति शेषः । निपुणो राह इति । साधुशब्दप्रयोगे तु अर्ची विनापि सप्तमी भवत्येव, 'साध्वसाधुप्रयोगे च' इत्युक्तेः । इह साधुग्रहणं तु अर्घायां प्रत्यादियोगे सप्तमीनिवृत्त्यर्थम् । अप्रत्यादिभिरिति । प्रति, परि, अनु एतैर्योगे सति साधुनिपुणाभ्यां योगेऽपि न सप्तमीति भावः । प्रसितोत्सुकाभ्याम् | 'तत्परे प्रसितासक्ताविष्टार्थोद्युक्त उत्सुकः' इत्यमरः । वैषयिकाधिकरणत्वे सप्तम्यामेत्र प्राप्तायामिदं वचनम् । नक्षत्रे च लुप | नक्षत्र इत्यनन्तरं प्रकृत्यर्थे सतीति शेषः । लुप्ाब्देन लुप्संज्ञया लुप्तप्रत्ययार्थो विवक्षितः । तदाह-नक्षत्रे प्रकृत्यर्थे इति । श्रधिकरण इति । 'सप्तम्यधिकरणे च' इत्यतः मण्डूकप्लुत्या तदनुवृत्तेरिति भावः । मूलेनैति । मूलनक्षत्रयुक्तकाल इत्यर्थ: । 'नक्षत्रेण युक्तः कालः' इत्यण् । 'लुबविशेषे' इति तस्य लुप् । अधिकरणे किम् । मूल प्रतीक्षते । नक्षत्र इति किम् । पञ्चालेषु तिष्ठति । इह 'जनपदे' इति लुप् । सप्तमीपञ्चम्यौ । कारकशब्दः कर्तृत्वादिशक्तिपरः, न तु कर्त्रादिपरः, व्याख्यानात् । मध्यस्यावधिद्वयसापेक्षत्वात् कारकयोर्मध्यमिति विग्रहः । तदाह-शक्तिद्वयमध्ये इति । 'कालाध्वनोः" इत्यनुवृत्तेः पञ्चम्यन्ततया विपरिणम्यत इत्याह - यौ कालाध्वानाविति । श्रद्य भुक्त्वेति । सामीपिकाधिकरणत्वे सप्तम्यामेव प्राप्तायां वचनम् । अद्य भुक्त्वा द्वयहे अतीते तत्समोपे तृतीयेऽह्नि भोक्तेत्यर्थः । भविष्यति लुट् । कर्तृशक्त्योरिति । अद्यतन भुजिक्रियानिरूपित कर्तृत्वस्य द्वयहोत्तरदिनगतभुजिक्रियानिरूपितकर्तृत्वस्य चेत्यर्थः । कारकशब्दस्य कर्त्रादिपरत्वे त्विह न स्यात्, क्वाप्रत्ययस्य विधानात् । कर्तृशक्तिस्तु भुजिक्रियाभेदात् भिद्यत एव । कारकद्वयमध्येऽप्युदाहरति - इहस्थोऽयमिति । इहापि देशतः सामीपिकमधिकरणत्वं पञ्चमीसप्तम्योरर्थः । इह तिष्ठन्नयमिष्वासः इषुणा क्रोशोत्तरसमीपदेशे लक्ष्यं विध्ये For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy