SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४७६ सिद्धान्तकौमुदी [ कारक विध्यॆत् । कर्तृकर्मशक्त्योर्मध्येऽयं देशः । अधिकशब्देन योगे सप्तमीपञ्चम्याविष्येते। 'तदस्मिन्नधिकम् -' ( सू १८४६ ) इति ' यस्मादधिकम् - ( सू ६४५ ) इति च सूत्रनिर्देशात् । लोके - लोकाद्वा अधिको हरिः । (६४४) अधिरीश्वरे । १४६७ ॥ स्वस्वामिसम्बन्धे अधिः कर्मप्रवचनीयसंज्ञः स्यात् । (६४५) यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी | २|३| ६ ॥ अत्र कर्मप्रवचनीययुक्त सप्तमी स्यात् । उप परार्धे हरेर्गुणाः । परार्धादधिका इत्यर्थः । ऐश्वर्ये तु स्वस्वामिभ्यां पर्यायेण सप्तमी । अधि भुवि रामः । अधि रामे भूः । 'सप्तमी शौण्डैः' ( सू ७१७ ) इति समासपक्षे तु रामाधीना । 'अषडक्षदित्यर्थः । कर्तृकमशक्त्योरिति । कर्तृत्वकर्मत्वरूप शक्त्योर्मध्य इत्यर्थः । कारकशब्दस्य कर्णादिपरत्वे त्विहैव स्यात् । अद्य भुक्त्वायमित्यत्र न स्यादिति सूचयितुमिदमप्युदाहृतम् । ननु लोके लोकाद्वा अधिको हरिरित्यत्र अवधित्वसम्बन्धे शेषषष्ठयेवोचितेत्याशङ्कयाह- श्रधिकशब्देनेति । लोके लोकाद्वेति । अवधित्वसम्बन्ध सप्तमीपञ्चम्योरर्थः । लोकापेक्षा श्रेष्ठ इत्यर्थः । I 1 अधेः कर्मप्रवचनीयकार्यं वक्ष्यन् कर्मप्रवचनीयसज्ञामाह - अधिरीश्वरे । ईश्वरशब्देन ईश्वरत्वं स्वस्वामिभावसम्बन्धात्मकं विवक्षितम् । 'कर्मप्रवचनीयाः' इत्यधिकृतमेकवचनान्ततया विपरिणम्यते । तदाह – स्वस्वामीति । यस्मादधिकम् । कर्मप्रवचनीययुक्ते इत्यनुवर्तते । तदाह - कर्मप्रवचनीयेति । शेषषष्ठ्यपवादः । उप परा इति । अवधित्वं सप्तम्यर्थः । तदाह - परार्धादधिका इत्यर्थं इति । यस्मादधिकं सङ्ख्यान्तरं न विद्यते तत्परार्धम् । तदपेक्षयेत्यर्थः । 'उपोऽधिके च' इति उपेत्यस्य कर्मप्रदचनीयत्वस्येदं फलम् । यस्येश्वरवचनमित्यस्य यत्सम्बन्धी ईश्वर उच्यते तत सप्तमीत्येोऽर्थः । इह यच्छब्देन स्वमुच्यते । एवञ्च स्ववाचकात्सप्तमीति लभ्यते । ईश्वरशब्दो भावप्रधान: यस्येश्वरत्वमुच्यते ततः सप्तमीत्यन्योऽर्थः । यन्निष्ठमीचत्वमुच्यते ततः सप्तमीति यावत् । एवञ्च स्वामिवाचकात्सप्तमीति लभ्यते । तदाहृ—ऎश्वर्थे तु स्वस्वामिभ्यां प्रर्यायेण सप्तमीति । श्रधि भुवि राम इति । अधिरीश्वर पर्यायः । सम्बन्धः सप्तम्यर्थः । भुवः स्वामी राम इत्यर्थः । अत्र स्ववाचकात्सप्तमी । श्रधि रामे भूरिति । अत्र अधिः स्वशब्दपर्यायः । सम्बन्धः सप्तम्ययः । रामस्य स्वभूता भूरित्यर्थः । अत्र स्वामिवाचकात्सप्तमी । समासपक्षे त्विति । शौण्डादिगणे अधिशब्दस्य पठितत्वेन तेनाधिशब्देन रामे इति सप्तम्यन्तस्य समासे सति 'सुपो धातु' इति सुब्लुकि रामाधिशब्दात् 'अषडक्षाशितङ्ग्वलङ्कर्मालम्पुरुषाध्युत्तरपदात् खः इति खप्रत्यये 'आयनेयीनीयियः' इति तस्य ईनादेशे रामाधीना भूरिति सिध्यति । For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy