SearchBrowseAboutContactDonate
Page Preview
Page 810
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् ३०] बालमनोरमासहिता। ८०१ ४।४।६२॥ गुरोर्दोषाणामावरणं छस्त्रम् , तच्छोलमस्य छात्रः। (१६१३) कामस्ताच्छील्ये ६।४।१७२॥ कामः इति ताच्छील्ये णे टिलोपो निपात्यते । कर्मशीलः कामः । 'नस्तद्धिते' ( सू ६७९ ) इत्येव सिद्धे 'अण्कार्य ताच्छीलिके णेऽपि' । तेन चौरी तापसी इत्यादि सिद्धम् । ताच्छील्ये किम् । कार्मणः । (१६१४ ) कर्माध्ययने वृत्तम् ४।४।६३॥ प्रथमान्तात्षष्ठयर्थे ठक्स्यादध्ययने वृत्ता या क्रिया सा चेत्प्रथमान्तस्यार्थः । एकमन्यवृत्तमस्य ऐकान्यिकः । यस्याध्ययने प्रवृत्तस्य परीक्षाकाले विपरीतोच्चारणरूपं स्खलितमेकं जातं, सः। (१६१५) बलपूर्वपदाट ४४६४॥ प्राग्विषये। द्वादशान्यानि कर्माण्यध्ययने वृत्ता. वरणे गौणमित्याह-गुरोरिति । शीलमित्यर्थे छत्रादित्वात् प्रत्यये कृते। कार्मस्ता. च्छील्ये । तत् शीलं यस्य सः तच्छीलः, तस्य भावः ताच्छील्यम् । तस्मिन्वाच्ये कार्म इति भवतीत्यर्थः । णप्रत्यये परे टिलोपः स्यादिति यावत् । तदाह-टिलोपो निपात्यत इति । णेऽपीत्यनन्तरम् इति ज्ञापनार्थमिदमिति शेषः । अत्र टिलोपविधिर्हि 'अन्' इति प्रकृतिभावनिवृत्त्यर्थः। ततश्च अणि विहितस्य प्रकृतिभावस्य णप्रत्यये परतः प्रतिषेधादणकार्यकारित्वं णप्रत्ययस्य ज्ञाप्यत इति भावः । तेनेति । चुरा शीलमस्याः, तपः शीलमस्याः इति विग्रहे चुरातपः शब्दाभ्यां छत्रादित्वाण्णप्रत्यये सति तदन्ताभ्यामणन्तकार्ये डीपि चौरी तापसीति सिद्धमित्यर्थः । कार्मण इति । 'तस्येदम्' इत्यणि 'कार्मस्ताच्छील्ये' इत्यस्याप्रवृत्त्या 'अन्' इति प्रकृतिभावान्न टिलोप इति भावः। कर्माध्ययने वृत्तम् । 'तदस्य पण्यम्' इत्यतः तदस्येस्यनुवर्तते । तदस्य कर्माध्ययने वृत्तम्' इत्यथेनिर्देशः । तत्र तदित्यनेन विशेष्येण कम वृत्तमित्यन्वेति । कर्मशब्दः क्रियापरः । वृत्तमित्यस्य जातमित्यर्थः । वृत्तं कर्म प्रति विशेष्यसमर्पकं तदिति प्रथ. मोच्चारितम् । ततश्च अस्य अध्ययनविषये तत्कर्म वृत्तमित्यर्थे तच्छब्दगम्यविशेष्य. वाचकात् प्रथमान्ताक् स्यादित्यर्थः । तदाह-प्रथमान्तादिति । वृत्तं कर्म प्रति विशे. ष्यसमर्पकादिति शेषः । अध्ययने वृत्तेति । विषयसप्तम्येषा । या क्रियेति । अनेन कम शब्दः क्रियापर इति सूचितम् । प्रथमान्तस्यार्थ इति । अनेन कर्म वृत्तमित्येतत् तदि. त्यस्य प्रथमान्तस्य विशेषणमिति सूचितम् । तदित्यननुवृत्तौ कर्मशब्दस्यैव सूत्रे प्रथमानिर्दिष्टत्वात् तत एव प्रत्ययः स्यात्, नतु तद्विशेष्यवाचकात् , तस्य प्रथमा. निर्दिष्टत्वाभावादित्यभिप्रेत्योदाहरति-एकमन्यवृत्तमस्य । ऐकान्यिक इति । तद्धितार्थ इति समासे एकान्यशब्दालगिति भावः । द्वैयन्यिकः, त्रैयन्यिकः । ऐजागमो विशेषः । बह्वच्पूर्वपदाछन् । 'तदस्य कर्माध्ययने वृत्तम्' इत्यनुवर्तते । तदाह बा० ५१ For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy