SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् १५] बालमनोरमासहिता । ४०५ प्रत्ययः स्यात् , स च तद्धितः । लिविशिष्टपरिभाषया सिद्ध तद्धिताधिकार उत्तरार्थः । युवतिः। अनुपसर्जनादित्येव । बहवो युवानो यस्यां सा बहुयुवा । युवतीति तु यौतेः शत्रन्तान्लीपि बोध्यम् । इति स्त्रीप्रत्ययप्रकरणम् ॥ अथ कारकप्रकरणम् ॥ १६ ॥ (५३२) प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा २३४६॥ - गम्यते । तदाह-युवन्शब्दात् तिप्रत्ययः स्यात् स च तद्धित इति । स्त्रियामिति शेषः । 'समर्थानाम्' इत्यतः प्राक् तदधिकारस्योक्तत्वादिति भावः। नान्तलक्षणीपोऽपवादः । नन्वत्र तद्धितग्रहणानुवृत्तिया । नच 'कृत्तद्धित' इति प्रातिपदिकत्वार्थे तदनुवृत्तिरिति वाच्यम् , प्रातिपदिकत्वाभावेऽपि लिङ्गविशिष्टपरिभाषया तिप्रत्ययान्तात् सुनुत्पत्तिसिद्धेरित्यत आह-लिङ्गविशिष्टस्येति युवतिरिति। स्वादिष्विति पदत्वात् 'न लोप' इति नकारलोपः । अनुपसर्जनादित्येवेति । अनुवर्तत एवेत्यर्थः । बहुयुवेति । उप. सर्जनत्वात्तिप्रत्ययाभावे नान्तलक्षणडीपः 'अनो बहुवीहेः' इति निषेधे 'डाबुभाभ्या. म्। इति डापि च रूपम् । ननु युवतीभिः परिवृत इत्यादौ कथं युवतीशब्द ईकारान्तः इत्यत आह - युवतीति स्विति । 'यु मिश्रणे इत्यस्माल्लटः शतरि, शपो लुकि, उव. डि, उगित्त्वान्डीपि युवतीशब्दो व्युत्पन्नो बोध्य इत्यर्थः। पतिं सुखेन मिश्रयन्ती योषिदुच्यते । अन्ये तु युधातोरोणादिके।बाहुलकात् कतिप्रत्यये कित्त्वात् गुणाभावे उवङि उगित्त्वात् डीपि युवतीशब्दः सिध्यतीत्याहुः । इति श्रीमद्वासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमाख्यायां स्त्रीप्रत्ययनिरूपणं समाप्तम् ॥ अथ कारकप्रकरणप्रारम्भः। तदेवम् 'ड्याप्रातिपदिकात्' इत्यधिकृत्य विहिताः स्वा. दिप्रत्ययाः सप्रयञ्चम् निरूपिताः । तत्र प्रथमादिसप्तम्यन्तसप्तविभक्तिनामर्थविशेष. व्यवस्था दर्शयितमुपक्रमते-प्रातिपदिकार्थ । ननु प्रवृत्तिनिमित्तं व्यक्तिश्चेति द्विक प्रातिपदिकार्थः प्रवृत्तिनिमित्तं व्यक्तिः लिङ्ग चेति त्रिकं प्रातिपदिकार्थः, प्रवृत्तिनिमित्त व्यक्तिः लिङ्ग संख्या चेति चतुष्कं प्रातिपदिकार्थः, प्रवृत्तिनिमित्तं व्यक्तिः लिङ्ग संख्या कारकं चेति पञ्चकं चेति पञ्चकं प्रातिपदिकार्थः, इत्येते पक्षाः 'सरूपाणामेकशेष एक For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy