________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११८
सिद्धान्तकौमुदी
[अजन्तपुंलिङ्ग
पूर्वसूत्रेण सिद्ध समासप्रहणं नियमार्थम् । यत्र सङ्घाते पूर्वो भागः पदं तस्य चेद्भ. वति तर्हि समासस्यैव । तेन वाश्यस्य न । (१०) प्रत्ययः।३।११॥ बा हणम् । तदाह-कृत्तद्धितान्तावित्यादिना ॥ कृत्तद्धितान्तयोः प्रत्ययान्तत्वात् पूर्वसूत्रे. णाप्राप्तौ कृत्तद्धितग्रहणम् । केवलयोः कृत्तद्धितयोः संज्ञायां प्रयोजनाभावात् संज्ञाविधाविति निषेधोऽत्र न भवति । अस्मादेव पूर्वसूत्रे संज्ञाविधावपि प्रत्ययग्रहणपरिभाषया तदन्तलाभात् प्रत्ययान्तपर्युदासः । केचित्तु अर्थवदित्यनुवर्त्य तत्सामर्थ्यात् तदन्तविधिमाहुः । कृदन्ते यथा-कर्ता भर्ता इत्यादि । तद्धिते यथा-औपगव इत्यादि । समासे यथा-राजपुरुष इत्यादि । . ननु समासग्रहणं व्यर्थम् , समासे राजपुरुष इत्यादिशब्दानां पूर्वसूत्रेणव प्रातिपदिकत्वस्य सिद्धत्त्वात् । न च उत्तरपदोत्तरलुप्तप्रत्ययं प्रत्ययलक्षणेनाश्रित्य प्रत्ययान्त. पयुदासः शङ्कयः, उत्तरपदमात्रस्य प्रत्ययान्तत्वेऽपि समुदायस्याप्रत्ययान्तत्वात् , प्रत्ययग्रहणे यस्मात्स विहितस्तदादेरेव ग्रहणात् प्रत्ययलक्षणमाधिस्य प्रत्ययान्तपर्युदासो न प्रवर्तत इति न सिम्बुद्धयोः' इति निषेधेन ज्ञाप्यत इति पूर्वसूत्रे प्रपञ्चि. तत्वाच्चेत्यत आह-पूर्वसूत्रेणेत्यादिना। नियमशरीरं दर्शयति-पत्रेति । पूर्वो भागः पदमित्युपलक्षणम् । उत्तरभागस्तु प्रत्ययो नेत्यपि दृष्टव्यम् । अन्यथा जन्मवानित्या. दौ प्रातिपदिकत्वं न स्यात् , स्वादिष्वसर्वनामस्थान इति पूर्वभागस्य पदत्वात् । नचात्र कृत्तद्धिते तद्धितग्रहणसामर्थ्यादेव प्रातिपदिकत्वं सम्भवतीति वाच्यम् , दाक्षिरित्यादौ तद्धितग्रहणस्य चरितार्थत्वात् । तत्र हि प्रकृतिभागो न पदम् , भत्वेन तद्वाधात् । पूर्वी भागः पदमित्यनुक्तो बहुपटव इत्यत्र पादिपदिकसंज्ञा न स्यात् । ईषदसमासावित्यनुवृसौ 'विभाषा सुपो बहुच्पुरस्तात्तु' इति सूत्रेण पटव इति प्रथ. माबहुवचनान्तात् पूर्वतः बहुच्प्रत्यये कृते अर्थवदिति प्रातिपदिकत्वात् तस्वयवजसो लुकि 'चितः सप्रकृतेर्बहकजर्थम्' इति टकारादुकारस्य उदासत्वे चित्स्वरे कृते पुनजेसि बहुपटव इति रूपम् । अत्र टकारादकार उदात्त इतिस्थितिः । जसन्तात् पूर्वतो बहुच्प्रत्यये बहुपटव इति समुदायस्य प्रातिपदिकत्वाभावे तु ततो जसन्तरं नोत्प. येत । नचेष्टापत्तिः, तथा सति बहुप्रकृतिभूतजसन्ते जसःप्रातिपदिकावयवत्वाभाचेन 'सुपो धातुप्रातिपदिकयोः' इति लुगभावाद्वहुपटव इति जसन्तस्यैव बहुप्रकृति. तया वितस्सप्रकृतेविधीयमानश्चित्स्वरः जस एवाकारस्य स्यात् । इष्यते तु टकारादु. त्तरस्य । बहुपटव इतिसमुदायस्य प्रातिपदिकत्वे तु प्रातिपदिकावयवत्वात् जसोलुकि पटुशब्दस्यैव बहुच्प्रकृतितया टकारादुत्तरस्य चित्स्वरे सति पुनर्जसि बहुपटव इति रूपमुक्तं निर्बाधमिति भावः । नियमस्य फलमाह-तेनेति । उक्तनियमेनेत्यर्थः । अन्यथा 'देवदत्त गामभ्याज शुक्लां दण्डेन' इत्यादिवाक्यस्यापि प्रातिपदिकत्वापत्तो सुकलुक् स्यात् । न च वाक्यस्य प्रत्ययान्तत्वादेव न प्रातिपदिकत्वमिति वाच्यम् ,
For Private and Personal Use Only