________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
बालमनोरमासहिता ।
प्रकरणम् ८ ]
प्रत्ययान्तं च वर्जयित्वाऽर्थव च्छन्दस्वरूपं प्रातिपदिकसंज्ञं स्यात् । ( १७६) कृत्तद्वितसमासाश्च ११२४६ ॥ कृत्तद्धितान्तौ समासाश्च प्रातिपदिकसंज्ञाः स्युः ।
११७
षय इति भावः । तदाह - धातुं प्रत्ययमित्यादिना । अव्युत्पन्ना डित्थादिशब्दा इहोदाहरणानि | अर्थवदिति किम् । धनं वनमित्यादौ प्रतिवर्णं प्रातिपदिकसंज्ञा मा भूत् । सत्यां हि प्रातिपदिकसंज्ञायां प्रतिवर्ण सुबुत्पत्तिः स्यात्, सङ्ख्याकारकाभावेऽपि प्रथमैकवचनस्य सोदुर्वारत्वात् प्रथमा विभक्तेः कारकानपेक्षत्वात् तदेकवचनस्य सख्यानवगमेऽपि प्रवृत्तेर्भाष्ये सिद्धान्तितत्वाच्च । नच हल्ड्यादिना सुलोपात् प्रतिवर्ण सोरुत्पत्तावपि न क्षतिरिति वाच्यम्, एवमपि नलोपस्य दुर्वारत्वात् अकारात् सोः रुत्वविसर्गापरोश्चेत्यलम् । अधातुरिति किम् । हनुधातोर्लङि, तिप्, शब्, लुक्, इतश्चेतीकारलोपः, अडागमः, हल्ड्यादिलोपः, अहन्निति रूपम् । अत्र धातोः प्रातिपदिकसंज्ञायां सुबपवादे तिङि उत्पन्ने लुप्ते तस्मिन् प्रातिपदिकसंज्ञायाः प्रागुत्पन्नाया अनपगमात् नलोपः स्यात् । नच प्रत्ययलक्षणमाश्रित्य प्रत्ययान्तपर्युदासादेव न प्रातिपदिकत्वमिति वाच्यम् । एवमपि प्राक्प्रवृत्तप्रातिपदिकत्वस्यानपगमात् । नचैवमपि कार्यकालपक्षे नलोपार्थं प्रातिपदिकसंज्ञायां क्रियमाणायां प्रत्ययलक्षणेन प्रत्ययान्तस्य प्रातिपदिकसंज्ञा न स्यादिति वाच्यम् । तर्हि हे राजन्नित्यत्रापि प्रत्ययलक्षणेन प्रत्ययान्तत्वात् प्रातिपदिकत्वाभावे सति नलोपस्याप्रeat 'न डिसम्बुद्धयोः' इति तन्निषेधवैयर्थ्यप्रसङ्गात् । नच राजन्शब्दस्यौणादिककनिन्प्रत्ययान्तस्य कृतद्धितेति प्रातिपदिकत्वान्नलोपप्रसक्तौ ' न बिसम्बुद्वयोः' इति निषेधोऽर्थवानिति वाच्यम् । उणादीनामव्युत्पत्तिपक्षे कृत्तद्धितेत्यस्याप्रवृत्तेः । एवं चास्मादेव निषेधात् प्रत्ययलक्षणमाश्रित्या प्रत्ययान्त इति पर्युदासो न प्रवर्तत इति विज्ञायते । एवं च अहन्नित्यत्राप्यप्रत्ययान्तत्वात् प्रातिपदिकत्वप्राप्तौ तन्निवृत्त्यर्थमधातुग्रहणम् । अप्रत्यय इति किम् । हरिषु करोषि इत्यत्र सुप्पिोरर्थवत्त्वात् अप्रत्ययान्तत्वाच्च प्रातिपदिकत्वे प्राप्ते तन्निवृत्यर्थमप्रत्यय इति प्रत्ययपर्युदासः । नचात्र सुप्सिपोर्व्यपदेशिवद्भावेन प्रत्ययान्तत्वात् प्रत्ययान्तपर्युदासेनैव प्रातिपदिकत्व निवृत्तिसम्भवात् किं प्रत्ययपर्युदासेनेति वाच्यम्, प्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य ग्रहणमिति परिभाषया प्रकृतिप्रत्ययसमुदायस्यैव प्रत्ययान्ततया केवलप्रत्यययोः सुप्सिपोः पर्युदासालाभात् । अप्रत्ययान्त इति किम् । हरिषु करोषि । अत्र प्रकृतिप्रत्ययसमुदाययोः प्रत्ययभिन्नत्त्वादर्थवत्त्वाच प्रातिपदिकत्वं मा भूत् ।
कृत्तद्धित । कृच्च तद्वितश्च समासश्चेति विग्रहः । पूर्वसूत्रात् प्रातिपदिकमित्यनुवर्तते, बहुवचनान्ततया विपरिणम्यते । प्रत्ययग्रहणपरिभाषया कृत्तद्धितेति तदन्तप्र
For Private and Personal Use Only