________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
५१०
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
सत्, द्विजस्य कुर्वन् कुर्वाणो वा । किंकर इत्यर्थः । अव्ययम्, ब्राह्मणस्य कृत्वा । पूर्वोतर साहचर्यात्कृदव्ययमेव गृह्यते । तेन तदुपरि इत्यादि सिद्धमिति रक्षितः । तथ्यः, ब्राह्मणस्य कर्तव्यम् । तव्यता तु भवत्येव, स्वकर्तव्यम् । स्वरे भेदः । समानाधिकरणेन, तक्षकस्य सर्पस्य । विशेषणसमास स्त्विह बहुलग्रहणान्न । 'गोर्धेनोः "*" करणत्वस्याविवक्षायां सम्बन्धविवक्षायां षष्ठी । अर्थग्रहणात् फलानां तृप्तिरित्यादावपि न समासः । फलसुहितमिति कथं समास इत्यत आह- तृतीयासमासस्तु स्यादेवेति । करणत्वविवक्षायां तृतीया । 'कर्तृकरणे कृता बहुलम्' इति समास इति भावः । तर्हि सुहितयोगे षष्ठीसमासनिषेधो व्यर्थ इत्यत आहस्वरे विशेष इति । तृतीयासमासे 'तृतीया कर्मणि' इति पूर्वपपदप्रकृतिस्वरः । षष्ठीसमासे तु समासस्येत्यन्तोदात्तत्वमिति फलभेद इति भावः । सदति । सद्योगे षष्ठीसमासनिषेध उदाहियत इत्यर्थः । ' तौ सत्' इति शतृशानचोः सदिति सञ्ज्ञा वक्ष्यते । ननु द्विजस्य कुर्वन्निति न कर्मणि षष्ठी, 'न लोक' इति निषेधात् । नापि द्विजस्य घटं कुर्वन्निति घटाद्यपेक्षया शेषषष्ठी, तर्हि सापेक्षत्वेनासामर्थ्यात् कुर्वन्नित्यनेन समासाप्रवृत्तेरित्यत आह- किङ्कर इत्यर्थं इति । द्विजं परिचर - नित्यर्थ इति यावत् । कृञ्धातुरिति परिचरणे वर्तत इति फलितम् । श्रव्ययमिति । उदाहरणं वक्ष्यत इति शेषः । पूर्वोत्तरेति । सत्तव्याभ्यां कृद्भ्यामित्यर्थः । ' अनेकमन्यपदार्थे' इति सूत्रभाष्ये सर्वपश्चादिति प्रयोगश्चेह लिङ्गम् । तव्य इति । उदाहरणं चक्ष्यत इत्यर्थः। ब्राह्मणस्य कर्तव्यमिति । ' अहं कृत्यतृचश्च' 'तव्यत्तव्यानीयरः' इति कृत्यस्तव्यः । ' कृत्यानां कर्तरि वा' इति षष्ठी । तव्यता तु भवत्येवेति । षष्ठीसमास इति शेषः । तकारानुबन्धरहितस्यैव तव्यस्य सूत्रे ग्रहणात्तव्यतो न ग्रहणमिति भावः । स्वकर्तव्यमिति । स्वस्य कर्तव्यमिति विग्रहः । ' कृत्यानां कर्तरि वा' इति षष्ठी । अत्र तव्यता योगात् समासनिषेधो नेति भावः । ननु तव्यत्प्रत्ययमाश्रित्य ब्राह्मणकर्तव्यमिति समाससम्भवात् किं तव्ययोगे तन्निषेधेनेत्यत आह-स्वरे भेद इति । वव्यति कृते कृदुत्तरपदप्रकृतिस्वरेण प्रकृतिस्वरः, तव्ये तु नेति फलभेद इति भावः ।
I
समानाधिकरण इति । समानाधिकरणेन षष्ठयन्तं न समस्यते इत्यत्रोदाहरणं वक्ष्यत इत्यर्थः । तक्षकस्य सर्पस्येति । अत्र समासे सति पुनः समासात् षष्ठयुत्पत्तौ तक्षकसर्पस्येति न भवतीत्यर्थः । ननु षष्ठीसमासस्य निषेधेऽपि 'विशेषणं विशेष्येण बहुलम्' इति कर्मधारय समासो दुर्वारः । अतः किं षष्ठीसमासनिषेधेनेत्यत आहविशॆषणसमासस्त्विति। ननु षष्ठीसमासनिषेधसामर्थ्यादेवात्र कर्मधारयो न भविष्यति । तत् किमगतिकगत्या बहुलग्रहणाश्रयणेन । न च कर्मधारयस्वर एव यथा स्यात् न तु षष्ठीसमासस्वर इत्येतदर्थः षष्ठीसमासनिषेध इति वाच्यम्, उभयथापि 'समा
For Private and Personal Use Only
[ तत्पुरुषसमास