________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
५२४
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ तत्पुरुषसमास
द्विगुः २१५२ ॥ तद्धितार्थ - ( सू ७२८ ) इत्यत्रोतस्त्रिविधः सख्यापूर्वी द्विगुः स्यात् । ( ७३१) द्विगुरेकवचनम् २|४|१|| द्विग्वर्थ: समाहार एकवस्स्यात् । 'स नपुंसकम् ' ( सू ८२१ ) इति नपुंसकत्वम् । पञ्चगवम् । (७३२) कुत्सितानि कुत्सनैः २|१|५३॥ कुत्स्यमानानि कुत्सनैः सह प्राग्वत् । वैयाकरणखसूचिः । मीमांसकदुर्दुरूट: । ( ७३३) पापाणके कुत्सितैः २|१|५४ ॥
सति 'गोरतद्धितलुकि' इति टचि अवादेशे पञ्चगवशब्दस्य द्विगुकार्य विधास्यन् द्विगुसंज्ञामाह-सङ्ख्यापूर्वी द्विगुः । सङ्ख्या पूर्वोऽवयवो यस्येति बहुव्रीहिः । ' तद्धितार्थ ' इति पूर्वसूत्रविहितसमासः अन्यपदार्थः, प्रत्यासत्तेः । तदाह - तद्धितार्थेत्यत्रोक्तस्त्रिविध इति । तद्धितार्थे विषये उत्तरपदे च परतः समाहारे च वाच्ये इत्येवं त्रिप्रकारो यः सङ्ख्यापूर्वः समास उक्तः स द्विगुरिति यावत् । तथाच पञ्चगवशब्दस्य समाहारे वाच्ये विहितसमासत्वात् द्विगुसज्ञा स्थिता । तद्धितार्थे तु पञ्चसु कपालेषु संस्कृतः पुरोडाशः पञ्चकपालः | 'संस्कृतं भक्षाः' इत्यण् । 'द्विगोर्लुगनपत्ये' इति लुक् । उत्तरपदे यथा, पञ्चनावप्रियः । 'नावो द्विगोः' इति समासान्तष्टच् । द्विगुरेकवचनम् । अत्र 'समाहारग्रहणं कर्तव्यम्' इति वार्तिकात् समाहार इति लभ्यते । वक्तीति वचनम् । बाहुलकः कर्तरि ल्युट् । सामान्ये नपुंसकम् । समाहारे द्विगुः एकार्थप्रतिपादकः स्यादिति लभ्यते । तत्र यदि । समाहियत इति कर्मणि घनि समाहारशब्दः समाहृतप्रधानः, तदा समाहृतगत द्वित्वबहुत्वयोः एकत्वानुपपत्तेरतिदेशस्सम्पद्यते । तदाहद्विग्वर्थः समाहार एकवदिति । यदा समाहरणं समाहारः समूहः, तदा तस्यैकत्वादेव सिद्धमिति नेदं सूत्रमारम्भणीयमिति भाष्ये स्पष्टम् । केचित्तु समूहस्य वस्तुत एकत्वेऽपि उद्भूतावयवभेदविवक्षया द्विबहुवचनव्यावृत्त्यर्थमिदम् । एवं चात्र उद्भूतावयवभेदविवक्षा न कर्तव्येति फलतीत्याहुः । स नपुंसकमिति । समाहारे द्विगुर्द्वन्द्वच नपुंसकं स्यादिति तदर्थो मूले वक्ष्यते । इति द्विगुसमासः ।
1
कुत्सितानि कुत्सनैः । वर्तमाने क्तः, व्याख्यानात् । तदाह- कुत्स्यमा नानीति । कुत्समैरिति करणे ल्युट् । प्राग्वदिति । समानाधिकरणेन समस्यते स तत्पुरुष इत्यर्थः । वैयाकरणखसूचिरिति । वैयाकरणश्चासौ खसूचिश्चेति विग्रहः । यः प्रक्रियां पृष्टस्सन् प्रश्ने विस्मारयितुमाकाशं दर्शयति पश्यति वा स एवमुच्यते । अत्र वैयाकरणः प्रक्रियाविस्मरणान्निन्द्यः । खसूचनं निन्दाहेतुः । मीमांसकदुर्दुरूट इति । 'दुल उत्क्षेपे' चुरादिः । दुर्पूर्वादौणादिकः कूटप्रत्ययः । ' बहुलमन्यत्रापि' इति लुक् । रलयोरभेदात्रः । यो मीमांसामधीत्यान्यथा जानानां दुराक्षेपं करोति स एवमुच्यते । विशेष्यस्य पूर्वनिपातार्थ सूत्रम् । विशेषणसमासे तु विशेषणस्य पूर्वनिपातः स्यात् । पापाणके कुत्सितैः ।
For Private and Personal Use Only