________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ४१]
बालमनोरमासहिता।
६२१
'बह्वल्पार्थान्मालामालवचनम्' (वा ३३३८)। नेह बहूनि ददात्यनिष्टेषु । अल्पं ददात्याभ्युदयिकेषु । (२११०) संख्यैकवचनाच्च वीप्सायाम् ।। ४३॥ द्वौ द्वौ ददाति द्विशः। माष माष माषशः । प्रस्थशः। परिमाणशब्दाः वृत्तावेकार्थी एव । संख्यकवचनात् किम् । घटं घटं ददाति । चीप्सायाम् किम् । बह्वल्पार्थाच्छस्कारकादन्यतरस्याम् । बह्वल्पार्थाच्च कारकाभिधायिनः शब्दात्स्वाथें शस्प्रत्ययो वा स्यादित्यर्थः । बह्वल्पार्थादिति । वार्तिकमिदम् । मङ्गलामङ्गले गम्ये एवायं शसित्यर्थः । बहूनि ददास्यनिष्टेष्विति । भयादिनिमित्तेष्वित्यर्थः । अल्पं ददात्याभ्युदयकेष्विति । अभ्युदयः श्रेयः, तत्प्रयोजनकेष्विष्टापूर्तेष्वित्यर्थः । आभ्युदयिकेषु बहुदान अनिष्टेषु अल्पदानं च मङ्गलम् । तद्विपरीतदानं तु अमङ्गालमिति भावः । अर्थग्रहणा. दूभूरिशो ददाति, स्तोकशो ददाति इत्याचप्युदाहार्यम् । सङ्खयैकवचनाच्च । सङ्ख्या च एकवचनं चेति समाहारद्वन्द्वात्पञ्चमी । एकत्वविशिष्टोऽर्थः उच्यतेऽनेनेत्येकवचनः । एकत्वविशिष्टस्यार्थस्य वचन इति विग्रहः । सहयावाचकात्तदन्यस्माच्चैकत्वविशिष्टबाचकात्कारकाभिधायिनः प्रातिपदिकात् वीप्सायां शस् वेत्यर्थः। सड्डयावाचिन उदाहरति-द्वौ द्वौ ददातीति । 'नित्यवीप्सयोः' इति द्विवचनम् । द्विशः इत्यत्र तु न । शसव वीप्साया उक्तत्वात् । 'तद्धितश्वासर्वविभक्तिः' इत्यत्र 'शत्प्रभृतयः प्राक् समा. सान्तेभ्यः' इति परिगणनात शसादीनां डाचपर्यन्तानामव्ययत्वम् । एकत्वविशिष्ट. वाचिन उदाहरति-माषं माषं माषश इति । माषं माषमित्यनन्तरं ददातीति शेषः । माषशब्दः परिमाणविशेषवाची। प्रस्थश इति । प्रस्थं प्रस्थं ददातीति विग्रहः।
ननु घट घटं ददातीत्यत्रापि घटशः इति स्यात् , घटशब्दस्याप्येकत्वविशिष्टार्थ. वाचकत्वात् । न च एकत्वविशिष्टस्यैवार्थस्य वाचकः एकवचनशब्देन विवक्षितः । घट शब्दस्तु नैवम् । घटौ घटाः इत्यादौ द्वित्वबहुत्वविशिष्टवाचकत्वादिति वाच्यम् , एवं सति माषशः प्रस्थशः इत्यत्रापि शसभावप्रसङ्गादित्यत आह-परिमाणशब्दा वृत्तावे. कार्था एवेति । अयमाशयः-समालादिवृत्तौ एकत्वविशिष्टस्यैवार्थस्य वाचका एकवच. नशब्देन विवक्षिताः । तथाविधाश्च परिमाणशब्दा एव, नतु घटादिजातिशब्दा अपि । माषदातेत्युक्ते हि माषपरिमितस्य हिरण्यादेर्दातेति प्रतीयते, नतु माषाणामिति । अतो माषशब्दोऽयं भवति वृत्तावेकत्वविशिष्टार्थनियतः। एवं प्रस्थादिशब्दोऽपि । घटशब्दस्तु नैवम् । घटदातेत्युक्ते घटानां दातेत्यपि प्रतीतेः । एतदेवाभिप्रेत्य प्रत्युदाहरति-घटं घटमिति । एतत्सर्वं जयादित्यमतम् । वामनस्तु उक्तनियमे प्रमाणाभा. वात जातिशब्देभ्योऽपि शस् भवत्येव, एकवचनग्रहणं तु घटौ घटौ ददातीत्यादौ शसभावार्थमित्याह । एकैकशः पितृसंयुक्तानित्यत्र तु शसैव वीप्साया उक्तत्वात् द्विर्वचन. मार्षमिति हरदत्तः । प्रत्याहाराक्षिकभाष्ये 'एकैकशः सहस्रकृत्वः' इति भाष्यप्रयो
For Private and Personal Use Only