________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३ ]
बालमनोरमासाहता।
-
आदिनीशब्दे परे आक्रोशे गम्यमाने । पुत्रादिनी त्वमसि पापे । 'आक्रोशे' किम् । तत्त्वकथने द्विवचनं भवत्येव । पुत्त्रादिनी सर्पिणी । 'तत्परे च' (वा ५०२१)। पुत्रपुत्रादिनी त्वमसि पापे । 'वा हतजग्धयोः' (वा ५०२२)। पुत्त्रहती-पुत्रहती। पुत्त्रजग्धी-पुत्रजग्धी । (५६) त्रिप्रभृतिषु शाकटायनस्य ८४|४५॥ त्र्यादिषु संयुक्तेषु वा द्वित्वम् । इन्न्द्रः-इन्द्रः। राष्ट्रम्-राष्ट्रम् । (५७) सर्वत्र काश एव स्यात् । अतोऽत्र लवर्णस्य लकार एवेत्यास्तां तावत्। ___नादिन्याक्रोशे। वे इत्यनुवर्तते। यर इति च । आक्रोशो निन्दा। आदिनीति ड्यन्तं लुप्तसप्तमीकम् । आदिनीशब्दे परे पुत्रशब्दस्यावयवो यः यर तकारः तस्य न द्वित्वम् । आक्रोशे गम्ये इत्यर्थः। तदाह-पुत्रशब्दस्येत्यादिना। पुत्रशब्दस्यावय. वस्येत्यर्थः । पुत्रादिनी त्वमसि पापे इति । पुत्रानत्तुं शीलमस्याः पुत्रादिनी । 'सुप्य. जातौ इति णिनिः। ऋन्नेभ्य इति डीप। हे पापे ! त्वं पुत्रादिनीत्यन्वयः । पुत्रघातिनीत्यर्थः। ईदृशाक्रोशस्य प्रायेण स्त्रीष्वेव सम्भवात् सूत्रे आदिनीति ड्यन्तमेव विवक्षितमिति हरदत्तः।माधवोऽप्येवम् । अत्र उकारात् परस्य तकारस्य "अनचि च" इति प्राप्तं द्वित्वं निषिध्यते । रेफस्य तु न कापि द्वित्वप्रसक्तिरित्यनुपदमेव वक्ष्यते । आक्रोशे किमिति । आक्रोश इत्यस्य किं प्रयोजनमित्यर्थः । किं पृच्छायां जुगुप्सने इत्यव्ययवग अमरः । एवमुत्तरत्राप्येवजातीयकेषु द्रष्टव्यम् । तत्त्वकथन इति । यस्याः पुत्राः स्वयमेव म्रियन्ते तां प्रति पुत्त्रादिनीति वस्तुस्थितिकथने तु न द्वित्वनिषेधः, तत्र निन्दायाः अप्रतीतेरित्यर्थः । तत्परे च। वार्तिकमेतत् । सः आदिनीशब्दः परो यस्मात् सः तत्परः आदिनीशब्दपरके पुत्रशब्दे च परे पुत्रशब्दावयवस्य यरों न द्वित्वमित्यर्थः। पुत्रपुत्रादिनी त्वमिति । पुत्रस्य पुत्रानत्तीति विग्रहः । अत्र पूर्वस्य पुत्रशब्दस्य आदिनीशब्दः परो न भवति, द्वितीयपुत्रशब्देन व्यवधानात्। अतः पूर्वसूत्रेण अप्राप्ते द्वित्वनिषेधे इदमारब्धम् । वा हतजग्धयोः। हतशब्दे जग्धशब्दे च परे पुत्रशब्दावयत्रस्य यरो द्वित्वं वा स्यादित्यर्थः । पुत्त्रहतीति । तकारद्वित्वे रूपम् । पुत्रो हतो ययेति विग्रहः। 'अस्वाङ्गापूर्वपदात्' इति ङीष इति केचित् । वस्तुतस्तु जातिपूर्वादित्यस्य तत्रानुवृत्तः गौरादित्वात् डीषिति युक्तम् । पुत्रघातसाहसस्य स्त्रीष्वेव सम्भवात् स्त्रीलिङ्गमेवोदाहृतम् । पुत्रहतीति । द्वित्वाभावे रूपम् । एवं पुत्त्र. जग्धी पुत्रजग्धीति । अनचि चेति द्वित्वविकल्पे सिद्धे पुत्रशब्दस्य क्तान्ते चेत् हतजग्धयोरेव आक्रोश एवेति नियमार्थमिदं वार्तिकमित्याहुः । त्रिप्रभृतिषु शाकटायनस्य । त्रिचतुरादिषु हल्षु संयुक्तेषु आद्यस्य अचः परस्य यरः द्वित्वं शाकटायनमते । मता. न्तरे तु नेत्यर्थः । इन्द्र इति नकारस्य द्वित्वविकल्पः। राष्ट्रमित्यत्र षकारस्य द्वित्वविकल्पः। सर्वत्र शाकल्यस्य । नेत्यनुवर्तते । यत्र यत्र द्वित्वं विहितं तत्र तत्र शाक
For Private and Personal Use Only