________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
૬
सिद्धान्तकौमुदी
[ अच्सन्धि
द्वे वाच्ये' (वा ५०१८ ) । 'मय इति पञ्चमी यण इति षष्ठो' इति पक्षे यकारस्यापि द्वित्वम् । तदिह धकारयकारयो द्वित्वविकल्प। चत्वारि रूपाणि । एकधमेकयम् । द्विधं द्वियम् । द्विधमेकयम् । एकधं द्वियम् । सुदुद्ध्युपास्यः । मध्वरिः । धात्त्रंशः । लाकृतिः । (५५) नादिन्याक्रोशे पुत्रस्य ८|४|४|१८|| पुत्रशब्दस्य न द्वे स्त
वार्तिकेन तस्य द्वित्वमित्यत आह-मय इतीति । पक्षे इत्यनेन उभयथा व्याख्यानमिष्टमिति सूचितम् । विनिगमनाविरहादिति भावः । अत्रापि वार्तिके यरोऽनुनासिक इत्यतो वाग्रहणमनुवर्तते । ततश्च फलितमाह - तदिति । तदित्यव्ययम् । इयता सन्दर्भेण यत् प्रपञ्चितं तेन इह सुध्य् इत्यत्र यकारधकारयोः द्वित्वविकल्पाच्वत्वारि रूपाणि सम्पद्यन्ते इत्यर्थः । एकधमेकयमिति । एकः धकारः यस्य तत् एकधम्, एवं एकयमित्यपि । धकारयकारयोरुभयोरपि द्वित्वाभावे एकधकार मेकयकार च प्रथमं रूपमित्यर्थः । द्विधं द्वियमिति । द्वौ धकारौ यस्य द्विधम् । एवं द्वियमित्यपि । धकारयकारयोरुभयोरपि द्वित्वे द्वियकारं द्विधकारं च द्वितीयं रूपमित्यर्थः । द्विधमेकयमिति । धकारस्य द्वित्वे यकारस्य द्वित्वाभावे द्विधमेकयं च तृतीयं रूपमि - त्यर्थः । एकधं द्वियमिति । धकारस्य द्वित्वाभावे यकारस्य द्वित्वे एकधं द्वियं च चतुर्थ रूपमित्यर्थः । सुद्ध्युपास्य इति । इह 'न भूसुधियोः' इति निषेधस्तु न भवति तस्य अजादौ सुपि विधानात् । इकोऽसवर्ण इत्यपि न । 'न समासे' इति तन्निषेधात् ।
मध्वरिरिति । मधुर्नाम असुरविशेषः । तस्यारिशत्रुः मध्वरिः । हरिरित्यर्थः । अत्र धकारादुकारस्य स्थानत आन्तर्यात् यथासङ्ख्यपरिभाषया वा वकारः । न चात्र वकारस्य दन्तस्थानाधिक्यात् न स्थानसाम्यमिति वाच्यम् । यावत्स्थानसाम्यस्य सावर्ण्यप्रयोजकत्वेऽपि आन्तरतम्ये यत्किञ्चित्स्थानसाम्यस्यापि प्रयोजकत्वात् । अन्यथा चेता स्तोतेत्यादौ इकारादेः एकाराद्यनापत्तेः । धात्त्रंश इति । अत्र तकारस्यैव द्वित्वम् । न तु रेफस्येत्यनुपदमेव वक्ष्यते अचोरहाभ्यामित्यत्र । लाकृतिरिति । लवर्णस्य आकृतिरिव आकृतिर्यस्येति विग्रहः । अत्र आकारे परे लवर्णस्य दन्तस्थानसाम्यात् लकारः । न च दन्तस्थानसाम्यात् प्रथमातिक्रमे कारणाभावाच्च तस्य चकार एवास्तु । आन्तरतम्ये यत्किञ्चित्स्थानसाम्यस्य प्रयोजकतायाः मद्ध्वरिरित्यत्रोक्तत्वादिति वाच्यम्, अत्र हि चत्वारो यणो यवरला विधेयाः । तत्र वकार - विधिकारे ओष्टस्थानसाम्यात् निस्सपत्नः सावकाशः, तत्र लकारस्य दन्तरूपस्थानभेदादप्राप्तेः । लाकृतिरित्यत्र लवणें तु वकारो लकारश्चेत्युभयमपि प्राप्तम् । अत्र शब्दपरविप्रतिषेधमाश्रित्य लकारविधिः परत्वात् अपवादत्वाच्च वकारविधि बाधते । यदि हि प्रथमातिक्रमे कारणाभावादत्रापि वकार एव स्यात्, afe लकार विधिर्निरव
For Private and Personal Use Only