________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३ ]
बालमनोरमासहिता ।
द्भावनिषेधः । (५२) झलां जश् झशि ८|४|५३ ॥ स्पष्टम् । इति धकारस्य दकारः । (५३) अदर्शनं लोपः १|१|६०॥ प्रसक्तस्यादर्शनं लोपसंज्ञं स्यात् । (५४) संयोगान्तस्य लोपः ८|२|२३|| संयोगान्तं यत्पदं तदन्तस्य लोपः स्यात् । इति यलोपे प्राप्ते । 'यणः प्रतिषेधो वाच्यः' (वा ४८०६) । ' यणो मयो
૪૫
I
निवत्त्वनिषेध इत्यर्थः । एवं चाच्परकत्वाभावेन अनचि चेति निषेधाभावात् धकारस्य द्वित्वं निर्बाधमिति भावः । तथाच सुध् ध् य् इति स्थितम् । झलाब्जश् झशि । स्पष्टमिति । झलां स्थाने जश् स्यात् झशि परत इति स्पष्टार्थकम् । तत्र न किञ्चिद्वयाख्यातध्यमस्ति पदान्तरस्यानुवृत्त्यभावादित्यर्थः । इति धकारस्येति । प्रथमधकारस्येत्यर्थः । दकार इति । स्थानत आन्तर्यादिति भावः । सुद् घ् य् इत्यत्र यकारस्य संयोगान्तलोपं शङ्कितुं लोपसज्ञासूत्रमाह-प्रदर्शनं लोपः । शब्दानुशासनप्रस्तावाच्छन्दविषयक श्रवणमिह दर्शनं विवक्षितम् । दर्शनस्याभावः अदर्शनम् । अर्थाभावेऽव्ययीभावः । 'स्थानेऽन्तरतमः' इत्यतः स्थान इत्यनुवर्तते । स्थानं प्रसङ्ग इत्युक्तम् । शास्त्रतः शब्दस्य कस्यचिच्छ्रवणप्रसङ्गे सति यदश्रवणम्, तत् लोपस भवतीत्यर्थः । तदाह - प्रसक्तस्येति । तत्र श्रवणाभावात्मके लोपे विहिते श्रवणार्थमुच्चारणमपि नास्तीत्यर्थाल्लभ्यते । प्रसक्तस्य किम् ? दधि इत्यादौ विपः अश्रवणात्मकलोपस्य प्रत्ययलक्षणमाश्रित्य 'ह्रस्वस्य पिति कृति तुक् मा भूत् । संयोगान्तस्य लोपः । पदस्येत्यधिकृतम् । संयोगः अन्तो यस्येति विग्रहः । संयोगान्तस्य पदस्य लोप इत्यन्वयः । नच कृत्स्नपदस्य लोपः । किन्तु अलोऽन्त्यस्येति परिभाषया तदन्तस्यैव । तदाह-संयोगान्तमित्यादिना । अत्र अन्तग्रहणं स्पष्टार्थमेव । संयोगस्य पदविशेषणतया येन विधिरित्येव तदन्तलाभात् । यत्तु संयोगावन्तौ यस्येति विग्रह - लाभार्थमन्तग्रहणम् । अन्यथा सुदृषत्प्रासाद इत्यत्र पकारात् पूर्वतकारस्य लोपः स्यादिति । तन्न, संयोगसन्ज्ञाया व्यासज्यवृत्तित्वात् प्रत्येकवृत्तित्वमभ्युपगम्य अन्तग्रहणप्रयोजनवर्णनस्य व्यर्थत्वादिति शब्दरत्ने विस्तरः ।
1
इति लोप इति । सुध य् इति यकारस्य अनेन सूत्रेण लोपे प्राप्ते तत्प्रतिषेधः आरभ्यते । यणः प्रतिषेधो वाच्यः । यणः संयोगान्तलोपप्रतिषेधो वक्तव्य इत्यर्थः । अनेन वार्तिकेन यकारस्य संयोगान्तलोपो न भवतीति शेषः । इदं वार्तिकम् आकरे प्रत्याख्यातम् । अथात्र यकारस्य अचः परत्वाभावादच्परकत्वाच्च अनचि चेति द्वित्वाप्रासौ द्वित्वविधिमाह - यणो मयो द्वे वाच्ये । अनेन वार्तिकेन यकारस्य द्वित्वमित्यन्वयः । ननु यदि यण इति पञ्चमी मय इति षष्ठी तर्हि यणः परस्य मयो -द्वित्वमिति लभ्यते । प्रकृते च यकारो न यणः परः, नापि मय् । अतः कथमनेन
For Private and Personal Use Only